________________
नयामततरहिणी तरङ्गिणीतरणिग्या समबहतो गयोपदेया।
मात्रकर्तव्यत्वेन विहितानि तत्परित्यागस्यागस्याशास्त्रीयत्वात् , सङ्कोचे मानाभावात् , निषिद्धानि काम्यानि च बन्धहेतुत्वात् , धनमूलानि च धनत्यागादेव त्यज्यन्ते, इत्येतावदेव सन्न्यासपदार्थत्वात् , तथा, च गीतावचनम् - "काम्यानां कर्मणां न्यासं, संन्यासं कवयो विदुः । नियतस्य तु संन्यासः, कर्मणो नोपपद्यते ॥ १ ॥ मोहात् तस्य परित्यागस्तामसः परिकीर्तितः " [
॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः-" विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते" [ - अत्राविद्या कर्म, विद्या च तत्त्वज्ञानं तुल्यवद् यो वेद प्राप्नोतीति पूर्वार्द्धार्थः, वेदेति प्रयोगात् " विदलु लाभे" इति धातोः छान्दसत्वेन भास्करीयैर्दर्शितत्वात् , “ तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [
] इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात् तत्त्वज्ञानस्याप्यपवर्गसामग्री निवेशन नियमपरम्, न तु वाक्यान्तरावधृतकारणताककर्मव्युदा. सनपरम् , समुच्चये चान्यान्यपि भूयांसि वचनानि सन्ति, तथा च गीतावचनम्संस्कारिणः कर्तव्यत्वेन - नित्यकर्म कर्तव्यत्वेन, विहितानि विध्यात्मकश्रुतिय चनप्राप्तानि । तत्परित्यागस्य तेषां कर्मणां संन्यासिनी परित्यागस्य । अशास्त्रीयत्वात् शास्त्रप्रमाणकत्वाभावात् । ननु मोक्षामिणोऽपि कर्मापरित्यागित्वे कर्मसंन्यासाभावात् संन्यासित्वमेव न भवेत्, अखिलकर्मपरित्यागस्यैव संन्यासपदार्थत्वादित्याशकां मनसि कृत्वा तत्प्रतिक्षेपायाह-निषिद्धानीति-निषिद्धानि, काम्यानि च बन्धहेतुत्वात् त्यज्यन्ते इत्यन्वयः। इत्येतावदेव निषिद्ध. काम-धनाधीनकर्मणां त्यागमात्रस्यैव । काम्यकर्मन्यासस्य संन्यासपदार्थत्वे भगवद्गीतावचनं प्रमाणयति-तथा च गीतावचनमिति । कवयो विद्वांसः । विदुः जानन्ति ! नियतस्य तु अवश्य कर्तव्यस्य पुनः, अवश्यकर्तव्यं च नित्यं नैमित्तिकं च, तस्य कर्मणः । संन्यासः त्यागो, नोपपद्यते न युज्यत इत्यर्थः । मोहात् सर्वकर्मन्यासः संन्यास इति भ्रमात् । तस्य नियतकर्मणः । श्रुतिरपि साक्षात् कर्म-ज्ञानसमुच्चयं प्रतिपादयन्ती तत्र प्रमाणमित्याह- साक्षादिति । तां श्रुतिमुल्लिखति- विद्यां चेति । अस्या अर्थमुपदर्शयति- अत्रेति • अस्मिन् श्रुतिवाक्य इत्यर्थः । अविद्या कर्मेतिअविद्यापदवाच्यं कर्मेत्यर्थः । विद्या च तत्त्वज्ञानमिति - विद्यापदवाच्यं तत्त्वज्ञानमित्यर्थः । वेदेत्यस्य प्राप्नोतीत्यर्थः । कथमित्यपेक्षायामाह-वेदेति प्रयोगादिति । नन्वेवं तत्वज्ञानमात्रस्यैव मोक्षजनकत्वप्रतिपादिकाऽपि श्रुतिरस्ति तस्याः का गतिरित्यत आह- तमेवेति- आत्मानमेवेत्यर्थः । विदित्वा ज्ञात्वा । अतिमृत्यु मोक्षम् । एति प्राप्नोति । अन्यः तत्त्वज्ञानाद् भिन्नः । अयनाय पुनः संसारेऽनागमनाय, मोक्षप्राप्तये इति यावत् । पन्थाः मागेः, उपाय इति यावत् । न विद्यते नैवास्ति । इति वाक्यं तु एवंस्वरूपं श्रुतिवचनं पुनः, अस्य नियमपरमित्यनेनान्वयः। एवकारस्य तमेवेत्यत्र स्थितस्यैव कारस्य । विदित्यनन्तरं योजनात् तथा योजने तं विदित्ववेत्येवंस्वरूपं लभ्यते, यथा दण्डे सत्येव घट इति वाक्याद् दण्डमात्रेण घट इति बोधो न जायते किन्तु दण्डोऽपि घटकारणमिति बोध उपजायते. तेन घटजनकसामग्यां दण्डोऽपि निविशते इति लभ्यते, तथा तं विदित्वैवेत्यादिवाक्यादात्मानं ज्ञात्वैव मोक्षमासादयति न स्वात्मानमज्ञात्वेति बोध उपजायते, तेन अपवर्गजनक सामग्थामवश्यं तत्त्वज्ञानं निविशतीति नियमपरमुक्तवाक्यमित्यर्थः। तर्हि किं परं नोक्तवाक्यमित्यपेक्षायामाह- न त्विति । वाक्यान्तरेति- विद्यां चाविद्यां चेत्यादिवाक्येत्यर्थः, वाक्यान्तरेणावधृता- निर्णीता, मोक्षं प्रति कारणता यस्य तद्वाक्यान्तरावधृतकारणताकमेवम्भूतस्य कर्मणो व्युदसनपरं
सनतात्पर्य नोक्तवाक्यमित्यर्थः, "व्यदासनपरं" इत्यस्य स्थाने "व्युदसनपरं" इति पाठो युक्तः । समाये तत्त्वज्ञानकर्मसमुच्चये । तथा च समुच्चय प्रतिपादकं च, तमभ्ययं ईश्वरम् आत्मानं वा, तदर्चाऽत्र सम्यक् ताज्ञानरूपैव । विष्णुपुराणवचनमपि समुच्चये प्रमाणमित्याह- विष्णुपुराणेऽप्युक्तमिति । तस्मात् मोक्षस्य परमपुरुषार्थत्वात् ।