________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समलहतो नयोपदेशः ।
पदार्थस्य निरासान्नास्तिकवादसासाज्यम्, [ पश्चात् ] विकल्पाभिलाप:- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवम्- ईश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः ६, तथा नास्ति जीवः परतः कालत इति षडेव ६ विकल्पा एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पा इति सप्त द्वादशगुणाश्चतुरशीतिः ८४ विकल्पानामिति । ननु निषेधे कालादीनामनियामकत्वात् कथं तद्भभेदादभिलापसम्भवः, नहि कालेश्वरादितः शशशृङ्गं नास्तीति नियन्तुं शक्यम् , यदि च कालादिना स्वतो जीवाद्यस्तित्वं परसमयविकल्पसिद्धमनूद्य तनिषेधादुपदर्शितभेदसङ्घयोपपाधते तदा नित्या-ऽनित्यपदत्यागेऽपि किं बीजमित्यन्वेषणीयम् , नित्यत्वा( घ)न्यतरोपरागेणापि विकल्पसिद्धस्यात्मादिपदार्थस्य निषेद्धं सुशक्यत्वात् , क्षणिकविज्ञानाभिन्नरूपात्मादिपदार्थाभ्युपगन्तुरक्रियावादिनः सहशक्षणपरम्परा
आकस्मिकोत्पादनापीति- अकस्मादेव जीवादयः पदार्था उत्पद्यन्त इत्येवं सम्भावनागोचरीकृतस्यापि जीवादेः पदार्थस्य नास्तित्वव्यवस्थित्या कथमपि जीवादिपदार्थस्यास्तित्वं न सम्भवतीत्येवस्वरूपस्य नास्तिकवादस्य साम्राज्यं भवतीत्येतदर्थ यदृच्छोपन्यासो युक्त इत्यर्थः। अक्रियावादिनां चतुरशीतिअंदा इति यत् प्रविज्ञातं तदेव विकल्पाभिलापानामुपदर्शने निष्टयति-विकल्पामिलाप इति । स्वत इत्यस्यापरित्यागेन षड़ विकल्पा उपदर्यन्ते- नास्ति : स्वतः कालत इत्यको विकल्प इति- कालनियम्यस्वासाधारणधर्मावच्छिन्नजीवनिष्ठप्रतियोगिताकोऽत्यन्ताभाव इति, कालनियम्याल्यन्ताभावनिरूपितस्वासाधारणधर्मावच्छिन्नप्रतियोगितावान् जीव इति वाऽर्थः, एवमप्रेऽपि । एवमिति- नास्ति जीवः स्वत ईश्वरत इति द्वितीयो विकल्पः, नास्ति जीवः स्वत आत्मत इति तृतीयो विकल्पः, नास्ति जीवः स्वतो नियतित इति तुरीयो विकल्पः, नास्ति जीवः स्वतः स्वभावत इति पञ्चमो विकल्पः, नास्ति जीवः स्वतो यदृच्छात इति षष्ठो विकल्प इत्येवं स्वत इत्यस्यापरित्यागेन षड् विकल्पाः । स्वत इत्यस्य परित्यागेन तत्स्थाने परत इत्यस्य न्यसनेन षड विकल्पा इत्थमेवाभिलपनीया इत्याह- तथेति । स्वत इत्यस्यापरित्यागेन षष्णां विकल्पानां परत इत्यस्या. परित्यागेन षण्णां विकरूपानां च मेलनेन द्वादश विकल्पा जीवे निष्पद्यन्त इत्याह- एकत्र द्वादशेति- एकस्मिन् जीवे द्वादश विकल्पाः सम्भवन्तीत्यर्थः । प्रत्येकमुकप्रकारेणाजीवादिष्वपि षटसु द्वादश विकल्पा भवन्तीत्यतिदिशति- एवमिति । द्वादश विकल्पाः सप्तगुणिता विकल्पानां चतुरशीतिनिष्पद्यत इत्याह- सति । उक्तदिशाऽक्रियावादिनां चतुरशीतिसंख्यकान् विकल्पानसहमानः परः शङ्कते-नन्विति। निषेधे स्वतः परतो वा जीवस्य निषेधे। कालादीनामित्यत्रादिपदादीश्वरादीनां पञ्चानामुपग्रहः । अनियामकत्वात् नियामकत्वासम्भवात् । तद्गभेदात् कालेश्वरादीनां विकल्पाभिलापान्तःप्रवेशभेदात् । कथं निषेधे कालादीनामनियामकत्वमित्यपेक्षायामाह-नहीति- अस्य शक्यमित्यनेनान्वयः, शशशृङ्गं यथाऽसत् तथाऽक्रियावादिनां मते आत्माऽप्यसन्निति शशशशाभावस्येवात्मनोऽप्यभावस्य कालेश्वरादिनियम्यत्वं न सम्भवतीति भावः। ननु शशशङ्गादिकं केनापि सत्त्वेन नाभ्युपगतमतस्तस्य निषेधः कालादिनियम्यो मा भूत् , आत्माद्यस्तित्वं पराभ्युपगत मिति परसमयसिद्धं तदनूद्य कालादिना निषेधो भविष्यत्यत उपदर्शितसङ्ख्योपपन्नेत्यत आह-यदि चेति । परसमयविकल्पसिद्धं परकीयागमप्रभवविकल्पात्मकज्ञानसिद्धम् ! यदि विकल्पसिद्धस्य कालादिना निषेधो भवदुपगमाईस्तदा आत्मादेरपि परागमप्रभवविकल्पसिद्धस्य नित्यत्वोपरागः सम्भवत्येवेति नित्यत्वाऽनित्यत्वोपरागेण तनिषेधस्य सम्भवेन नित्यानित्यपदप्रवेशोऽपि पूर्वोक्तन्यासे सम्भवतीति तत्परित्यागस्य निर्वाजत्वं स्थादित्याह- तदा नित्यानित्यपदत्यागेऽपीति । अजीवादि बाह्यं तु स्वयमभ्युपगच्छत्येव क्षणिकविज्ञानाभिन्नात्मरूपाभ्युपगन्ताऽक्रियावादीत्यतस्तस्य मते बाह्यधर्मत्वाद् बाह्य नित्यत्वमनित्यत्वं च पारिभाषिक समस्तीति तदुपरागेण बाह्यजीवादिपदार्थनिषेधोऽपि सम्भवत्येवेत्याह-क्षणिकविज्ञानाभिन्नेति । यदि नित्यत्वमनित्यत्वं च स्वाभ्युपगमादेवा क्रियावादिनः समस्ति तदा तदुपरागेण बाह्यनिषेधो न तन्मते घटेतेत्यत आह - तस्योत्कटत्वेनेति-नित्यत्वस्य यदुत्कटत्वमप्रच्युतानुत्पन्नस्थिरकस्वभावत्वलक्षणम्, अनित्यत्वस्य यदुत्कटत्वं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वम् , तद्रूपेण बाह्यं नित्यत्वमनित्यत्वं निषेधुं शक्यमित्यर्थः । परमेवं यथाश्रतपाठानुसारिव्याख्यानं सन्दर्भविरुद्धत्वान्न सङ्गतम्, सन्दर्भविरोधश्च सन्दर्भमध्यपाति “चेत् ? तर्हि " इति प्रश्नप्रतिविधानावबोधकपदद्वयघटितत्वेनैतत्सन्दर्भस्य प्रश्न-प्रतिविधानरूपता प्रतीयते, तत्सङ्गमनाऽसम्भव एव, तत एवं