________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पतितत्वेन नित्यत्वं क्षणिकत्वेनानित्यत्वं च स्वाभ्युपगमादेव बाह्यं तस्योत्कटत्वेन निषेद्धुं न शक्यमिति चेत् ? तर्हि यादृशं परमतसिद्धं नित्यत्वमनित्यत्वं च तादृशमेव निषिध्यताम्, अन्यथा धर्मिणो निषेधेऽपि व्याघातापरिहारात्, अथात्मत्वं शरीरातिरिक्तावृत्तीत्यादिरेव निषेधार्थ : बाघ-सिद्धिसाधनादिभयातुपनिपातादिति चेत् ? तर्हि आत्मत्वं न नित्यात्मसमानाधिकरणम्, आत्मपदवाच्यं न नित्यपदवाच्यमित्यादिरीत्या नित्यानित्यभेदवादे प्रक्षेपेणापि कथं नाक्रियावादोक्तिः इति चेत् ? अत्रेदमाभाति - विकल्पसिद्धस्य निषेध्यत्वेऽपि स्वतः कालतः इत्यादिपदार्थस्य निषेधप्रतियोगिविशेषणविधयाऽन्वय साकाङ्गत्वेन तदुपादानं, नित्यानित्यपदे तूद्देश्यधर्मिण्येव स्वार्थान्वयसाकाङ्क्ष इति तत्परित्यागः इति प्राचीनप्रणयानुरोधेन स्थितस्य गतिचिन्तनं चैतदिति नाधिकविकल्पकल्लोललोलं चेतो विधेयम् । अज्ञानिकानां सप्तषष्टिर्भेदाः, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, नन्वेवं लाघवात् प्रक्रमस्य बहुव्रीहिणा व्याख्यानमत्रादरणीयम् - ननु नित्यत्वमनित्यत्वं चाभ्युपगच्छत्येवा क्रियावादी, यतः क्षणिकविज्ञानाभिरूपात्मादिपदार्थस्तेनाभ्युपगतः, तत्र सदृशक्षणपरम्परापतितत्वलक्षणं नित्यत्वं क्षणिकत्वस्वरूपमनित्यत्वं च स्वीकृतम्, ततः कथं नित्यत्वाऽनित्यस्वोपरागेणाऽऽत्मनो निषेधस्तन्मते ? इति नित्याऽनित्यपदत्यागेऽस्त्येव बीजमिति पराकूतमुपदर्श्य दूषयति- क्षणिकविज्ञानाभिम्नेति । " बाह्य तस्योत्कटत्वेन " इत्यस्य स्थाने "सिद्धं तन्नोत्कटत्वेन " I इति पाठो युक्तः, तत् स्वमतप्रसिद्धं नित्यत्वमनित्यत्वं च उत्कटत्वेन स्वसमये सुदृद्धानरूढखेन । निषेद्धुं न शक्यमिति चेत् ?, एवं यद्युपेयते, तर्हि तदा, यादृशं यादृग्भूतमप्रच्युतानुत्पन्न स्थिरैकस्वभावादिलक्षणं, नित्यत्वं प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वलक्षणं स्वप्रागभावध्वंसानधिकरण यावत्कालस्थायित्वलक्षणं, वाऽनित्यत्वं च परमतसिद्धं नैयायिकादिमतसिद्धम्, तादृशमेव तादृग्स्वरूपमेव नित्यत्वं निषिध्यतामित्यर्थः तथा च परमतसिद्धनित्यत्वाऽनित्यत्वोपरागेणात्मनो निषेधसम्भवादुक्तन्या से नित्याऽनित्यपदप्रवेश एव युक्त इति नित्यानित्यपदपरित्यागे किं बीजमित्याशङ्का तदवस्यैवेत्याशयः । अभ्यथा परमतसिद्धत्वस्यानादरे । धर्मिणो निषेधेऽपि आत्मनो निषेधेऽपि । व्याघातापरिहारात् यथाऽसतः शशशृङ्गादेर्निषेधो न कालेश्वरादितो नियन्तुं शक्यस्तथाऽऽत्मनो निषेधोऽपीत्येवं व्याघातस्य परिहर्तुमशक्यत्वात् । शङ्कतअथेति । उक्तनिषेधार्थाश्रयणे बाध-सिद्धिसाधनादिदोषोऽपि नास्तीत्याह- बाघेति- आत्मा शरीरातिरिक्तो न भवतीत्येवं निषेधार्थाभ्युपगमे परमतसिद्धस्यात्मनो धर्मित्वे तत्र शरीरातिरिक्तत्वमेवेति बाधः, शरीरमेवात्मेति मतसिद्धशरीररूपात्मनो धर्मित्वे शरीरे शरीरातिरिचत्वं नास्तीति सर्वैरभ्युपेयत एवेति सिद्धसाधनं स्यादेवेति । समाधत्ते - तद्दति । " नित्यानित्यभेदवादे' इत्यस्य स्थाने "नित्यानित्यपद " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । ' ननु निषेधे ' इत्यादिप्रश्न ग्रन्थकृत् स्वमनीषोद्भासितं प्रतिविधानमुपदर्शयति- अत्रेति - अनन्तरोपवर्णित प्रश्न इत्यर्थः । इदं विकल्पसिद्धस्येत्यादिना वक्ष्यमाणं प्रतिविधानम् । आभाति मम भासते । विकल्पसिद्धस्य परसमयप्रभवविकल्पात्मकज्ञानसिद्धस्याssत्मनः । निषेध्यत्वेऽपि निषेधप्रतियोगित्वेऽपि । तदुपादानं स्वतः काल इत्यादिपदस्योपादानम् । उद्देश्यधर्मिपयेव उद्देश्यं यदात्मस्वरूपं धर्मं तस्मिन्नेव | स्वार्थान्वयसाका स्वार्थस्य नित्यत्वादिधर्मस्यान्वये साकाले स्वार्थान्वयबोधजनके । इति एवं स्वरूपविशेषात् । तत्परित्यागः निरुक्तन्या से नित्यानित्यपदत्यागः । ईदृशप्रतिविधानादरे हेतुमुपदर्शयति- प्राचीनेति प्राचीनानां सिद्धान्तकपरिशीलनस्वभावानां सूरीणां यः प्रणयः तन्मतश्रद्धालक्षणस्तदनुरोधेन । स्थितस्य तदुक्तौ स्थितस्य विदुषः । गतिचिन्तनं तदुपपादनप्रकारविचारणम् । एतत् अनन्तरोपवर्णितं प्रतिविधानम् । इति एतस्मात् कारणात् । अस्मिन् विषये अधिकाश्चतुरशीतिविकल्पभिन्ना ये नित्यानित्यपदप्रवेशेन विकल्पास्तदात्मका ये कल्लोलास्तरास्तैलं चञ्चलमस्थिरविचारं चेतो न विधेयमित्यर्थः । अज्ञानिकमेदान् प्ररूपयति- अज्ञानिकानामिति । अज्ञानिकशब्दव्युत्पत्त्युपदर्शनेनाज्ञानिकस्वरूपमावेदयति तत्रेति अज्ञानिकानां सप्तषष्टिसंख्यकभेदेषु निरूपणीयेषु नतु न विद्यते सम्यग्ज्ञानस्वरूपं ज्ञानं येषां ते अज्ञाना इति बहुव्रीहिसमासाश्रयणादज्ञानशब्दादेवाज्ञानिकरूपार्थलाभ संभवात् तत्र लाघवतर्कसहकारस्यापि भावात् तद्धिताणिनिप्रत्ययमज्ञानशब्दादानीयोक्तव्युत्पत्तिका ज्ञानिक शब्द स्वरूपशब्दनिष्पादनं न सम्भवति
३८९