________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । एते चास्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि-एतेषां पुण्या-ऽपुण्य. विवर्जितपदार्थसप्तकं न्यसनीयम् , पुण्या-ऽपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षित. स्वात् , तत्र च जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असवादात्मनो नित्या-ऽनित्यभेदी नाङ्गी. क्रियेते, नित्या ऽनित्ये ह्यपरञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम् , निषेध प्रतियोगिता समानाधिकरण-व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व-परतस्त्वभेदद्वयं नातिकामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यहच्छा नामाऽकस्माद्भावः, तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः
समुचिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । “लक्षणाऽमुनो" इत्यस्य स्थाने " लक्षणा अमुनो" इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । पतेषाम अक्रियावादिनाम । पण्या-ऽपण्यविजितेति जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षेषु नवसु पदार्थेषु पुण्याइपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं-स्थापनीयम् । स्थापनायो पुण्याइपुण्यविवर्जन कयमित्य. पेक्षायामाह- पुण्या-sपुण्यनिरासस्येति-जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपश्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याऽपुण्यनिरासस्य पुण्याऽपुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति- यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायव वक्तुविवक्षा भवति, यश्च निश्चितस्तत्रासान-संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्याऽपुण्ययोन न्यसनमित्यर्थः। तत्रच जीवाऽजीवादिसप्तपदार्थन्यासे च। जीवस्य जीवपदार्थन्यासस्य । अधः अधस्तात् । स्वपरविकल्पमेदद्वयोपन्यास इति-सचेत्थं निभालनीयः- जीवः स्वतः परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्यायप्रिमप्रन्य प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व-परयोस्वस्तात् कालादिन्यास उल्लिखितः। तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकालानिवृत्तये स्वाह-असत्वादात्मन इति- अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोन्यास इत्यपेक्षायामाह-नित्याऽनित्ये इति । तदपन्यासेति- जीवोपन्यासेत्यर्थः। ते च नित्यानित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति- काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्टप्रतियोगिताय निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एवं तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति- यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रति. योगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान तयोः समानाधिकरणधर्मस्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोनिषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्म. विधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व-परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता" इत्यस्य स्थाने “निषेधप्रतियोगितायाः" इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह - कालादीनां चेति- षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यहच्छा किंस्वरूपेत्यपेक्षायामाह- यहच्छेति । नामेति कोमलामन्त्रणे। तथा च अकस्माद्भावलक्षणाया यहच्छाया उपन्यासे च।