________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तत्वात्, नापि चतुर्थ:- पढे तन्तुजन्यत्व - कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात् । एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निरस्तम् । तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् । तावद्धर्मावच्छिन्नतद्व्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपित भव्यतानुप्रवेशेनैव तद्धेतोर्व्याप्रियमाणत्वादि (स्वा) नादित्वा (घ) - ध्यवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् । अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा ऽतीर्थकर प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेस्वभावात्, अथेयं चैत्रावलोकित मैत्र निर्मितनी लेतर घटत्वादिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः
३७३
64
चतुर्थोऽपि न युक्त इत्यर्थः । तत्र हेतुमाह- पट इति । तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्यं निरूप्यम्, नियामकं च निरूपकम्, न च स्वमेव स्वस्य निरूपकम् प्रकृते तु निरूप्यमेव निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन । तत्तदिति- यथा पढे यत्तन्तुजन्यत्वकपालाजन्यत्वात्मक धर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतो धर्मस्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोष प्रस्तमतः पामराभ्युपगतं मूर्खकल्पविद्वन्मन्यस्त्रो कृतं खण्डितमव सेयमित्यर्थः । तस्मात् स्वभावादेव - स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यस्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदाद्युपगतः श्रेयानिति निगमयति- तस्मादिति । तन्तुजन्यत्व - कपालाजन्यस्वादियावद्धर्मविशिष्टपटव्यक्तस्तथा भव्यत्वादेवोत्पाद इति तथाभव्यत्वहेतुताप्रवादं जैनानां सङ्गमयति- सावद्धर्मावच्छिन्नतद्वयक्त्युपपत्ताविति " तद्व्यक्त्युपपत्तौ ” इत्यस्य स्थाने " तद्वयत्युत्पत्तौ " इति पाठः सम्यग्, अस्य तद्धेतोर्व्याप्रियमाणत्वादित्यनेनान्वयः । तन्निरूपितेति-- तद्व्यक्तिनिरूपितेत्यर्थः । भव्यताऽनुप्रवेशेनैवेति- नश्येकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्येकं किञ्चिज्जनकं किन्तु सामग्री वैजनिकेति प्राचीन गीयते, सामस्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्व्यक्तिनिरूपित मव्यत्वमपि प्रत्रिशतीत्येवं भव्यत्वानुप्रवेशेनैवेत्यर्थः । दि (त्व) नादित्वा (द्य ) वध्य " इत्यस्य स्थाने "दित्यनाद्यवध्य " इति पाठः सम्यक् इति एतस्मात् कारणात्, अनाद्यवध्यवधिमत्प्रवाहस्येति- अवधिर्हेतुः अवधिमत् कार्यम्, तयोः प्रवाहः- परम्परा, तथा अनादिश्चासाववध्यवधिमत्प्रवाहश्वानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषान नुपातात्, अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथाभव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्थाया भावेऽपि तस्या न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः । अयमेव कारणकूटे तावद्धर्मविशिष्टतया किनिरूपित भव्यत्वानुप्रवेशेन तद्धेतोस्तावद्धर्मावच्छिन्नतद्व्यतयुत्पत्तौ व्याप्रियमाणत्वमित्यभ्युप गमवाद एव । एतदनभ्युपगमे च निरुक्ततथा भव्यस्वहेतुतावादानभ्युपगमे च । तीर्थकरेति - यस्तीर्थकरो भूत्वा सिद्धयति स तीर्थंकरसिद्धः, यचातीर्थकर एव सिद्धयति सोडतीर्थंकरसिद्धः, एवमग्रेऽपि तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थंकरसिद्धादिलक्षणकार्यभेदः स तथामव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः । तत्र हेतुमाह तत्रेति तीर्थकर सिद्धादिकार्यभेदे इत्यर्थः । अभ्यपुष्कलद्देत्वभावादिति - केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यस्वान्येव प्रतिनियतकार्यनिरूपितानि विभिन्नानि कारणानि तत्प्रवेशत एव साध्या अपि भेद:, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथाभव्यस्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः । ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्टकार्यव्यक्ति प्रति तथाभव्यस्वस्याभिहितस्वरूपस्य कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् तथा च कुत्रचिद् घटे चैत्रावलोकितत्वं मैत्रनिर्मितत्वं नीलेतरत्वं घटत्वादिकं चास्तीति तावद्धर्मावच्छिन्ना घटनिष्ठकार्यताऽऽपायत इत्याशङ्कते - अथैवमिति । इष्टापत्तिरेवात्र समाधानमित्याह - स्यादेवेति- चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः । किं नश्छिन्नं तथाभव्यस्वकारणत्वना दिनां