________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ष्णस्पर्शवत्तेजः कारणमिति नव्याः, तेजस्वेन तत्र हेतुत्वम्, व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादिनिष्ठवैजात्यावच्छिन्ने व्यणुकादिनिष्ठव ह्नित्वेनेत्येतस्मात् कचिदेकान्तेन कंचिश्व विकल्पेन दण्डत्वादिना घटादौ तृणत्वादिना च वह्निविशेषादौ कारणतायुक्तागमबलात् तत्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताssवश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः ।
३७२
वयं तु ब्रूमः - तन्वोरेव पटो न कपालादेरिति, कुन इति प्रभे स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धर्म्यालम्बने, उत धर्मालम्बने ? आधे-तन्तुजन्यकपालाजन्यपदे स्वभावो हेतुरित्यागतम्, स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात्, भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च न तृतीयः- धर्महेतोरजिज्ञा सि
63
"C
कस्यचित् कारणस्यानुपदर्शनाद् वह्निस्वावच्छिने किं कारणमित्याकाङ्क्षायास्तन्मतेऽनिवृत्तेः तस्मादन्यमतमेवैतत् । तथा व मित्यन्ये " इत्यस्य स्थाने " मिति । अन्ये " इति पाठः " कारणमिति " इति स्थाने " कारणमिति । " इति पाठः । 'नव्याः, इत्यस्य स्थाने " नव्यास्तु इति पाठेन भाव्यम्, तस्य तेजस्वेनेत्याद्या प्रिमग्रन्थे समन्वय इति बोध्यम् । तत्र वहित्वावच्छिने । तृणत्वादित्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि तेजस्त्वावान्तर जाते: परमाण्वात्मकतेजस्यनुपगमान्न द्वयणुकात्मकवही परमाणुनिष्ठवह्निखेन कारणत्वसम्भव इति द्व्यणुकात्मकवहौ तृणत्वादिना हेतुत्वमङ्गीकृतम् । त्रसरेण्वादिनिष्ठेति द्व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण द्व्यणुकात्मक वस्त्रसरेण्वात्मकवह्निगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति । उपसंहरति- तस्मादिति । " नेत्यतस्मात् " इत्यस्य स्थाने नेति, तस्मात् " इति पाठो युक्तः । कचिदेकान्तेनेति घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं तदेकान्तेन न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणत्वादिना तृणादेर्यत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्वादितो वा वह्निविशेषादेः सम्भव इति । कारणतायुक्तागम इत्यस्य स्थाने " कारणता युक्ता, आगम " इति पाठो युक्तः । तत्रज्ञानत्वेनेति- मोक्षं प्रति तत्त्वज्ञानस्वेन कर्मविशेषस्वादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः । इति एतस्मात् कारणात् । अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः ।
64
**
"
37
""
स्वयं नियतिवादखण्डनमुपदर्शयति- वयं स्थिति- स्याद्वादिनोऽस्मदादय इत्यर्थः । " रिति, कुत" इत्यस्य स्थाने " रिति कुत " इति पाठो युक्तः । किं हेतुविषये इति- तन्तोरेव पटो न कपालादेरिति कस्माद्धेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति तन्तोरेव पटो न कपालादेरिति कस्मान्नियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः । उभयत्रापि हेतुविषयप्रश्नोत्तरयोर्नियामकविषयप्रश्नोत्तरयोश्च । आधे धर्म्यालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे । आगतम् उत्तरस्वरूपं प्राप्तम् । धर्म्यालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्त्या स्वभाव: स्वमेव भवेत् तथा च स्वस्मादेव भवतीति न चैकस्यैव पौर्वापर्यनियत कार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह- स चेति स्वभावश्चेत्यर्थः । द्वितीयेऽपि धर्म्यालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि । स एव आत्माश्रय एव यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह - स्वस्येति । जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयक प्रश्नस्योत्तरं स्वभिन्ननियामक विषयकमेव भवितुमर्हतीति निरुक्तोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भेति । न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः । निरुकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति- धर्महेतोरिति । नापि चतुर्थ इति धर्मालम्बने नियामकविषये प्रनोसरे इति
-