________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । छिन्नम् , तथाभन्यत्वकार्यतायास्तथाभावेऽपि दृष्टदण्डादिकार्यताया घटत्वाद्यवच्छेदेनैव यथादर्शनमभ्युपगमेन प्रवृत्त्यादिव्यवहारानुच्छेदात् , इष्यते चानन्यगत्या परेणाप्यर्थसमाजसिद्धधर्मेणापि परामर्श-तत्त्व
जनानां न किमप्येवमभ्युपगमे छिन्नं खण्डितं भवति । नन्येवं घटत्वादिसामान्यधर्ममात्रावच्छिन्न कार्यताया अभावात् तनिरूपितदण्डवायवच्छिलकारणताया अप्यभावेन घटाद्यार्थिनस्तनिमित्तदण्डादिसम्मेलनप्रवृत्त्यादिव्यवहारोच्छेदः प्रसज्येतेत्यत आह-तथाभव्यत्वकार्यताया इति- तथाभव्यत्वनिष्ठकारणतानिरूपितकार्यताया इत्यर्थः । तथाभावेऽपि चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वाद्यवच्छिनत्वस्य भावेऽपि। दृष्टेति- दृष्टा अन्वय-व्यतिरेकप्रहसचिवप्रत्यक्षविषयीभूता या दण्डस्वाद्य. वच्छिन्नकारणतानिरूपितकार्यता तस्याः, घटत्वाद्यवच्छेदेनैव घटत्वाद्यवच्छिन्नत्वेनैव, यथादर्शनमभ्युपगमेन- प्रत्यक्षमनतिक्रम्य स्वीकारेण, घटादिकार्यसम्पादनार्थ दण्डादिकारणसङ्टनादिविषयकप्रवृत्त्यादिव्यवहारेच्छाभावादित्यर्थः । प्रत्येकधर्मप्रयोजकानेकसामग्रीप्रयोज्यत्वलक्षणार्थचमाजसिद्धत्वाकान्तधर्मेणापि कार्यत्वं नैयायिकादिभिरप्युपेयत इति तद्रूपेण तथाभव्यत्वनिरूपितकार्यत्वकल्पना नादृष्टचरीत्याह- इष्यते चेति- अभ्युपगम्यते चेत्यर्थः । अनम्यगत्या व्यतिरेकव्यभिचारनिवारकप्रकारान्तराभावेन । परेणापि नैयायिकादिनाऽपि । अर्थसमाजसिद्धधर्मेणापि स्वघटकप्रत्येकधर्मप्रयोजकसामग्रीसमुदायप्रयोज्यधर्मेणापि । परामर्शति- वहिल्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वहिनमानित्यनुमितिरुपजायते, वहिव्याप्यालोकवान् पर्वत इति परामर्शादपि पर्वतो वह्निमानित्यनुमितिरुपजायत इति वहिव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शाभावेऽपि वहिव्याप्यालोकत्वावच्छिन्न प्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शात् पर्वतत्वावच्छिन्नावशेष्यतानिरूपितवाहत्वावच्छिन्नप्रकारताकानुमित्युत्पत्तव्यतिरेकव्यभिचारेण वह्नित्वावच्छिन्नप्रकारता. निरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्नं प्रति न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपकनिश्चयत्वेन कारणत्वं किन्तु वहिव्याप्यधूमवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुकानुमितित्वावच्छिन्नं प्रति निरुक्तपरामर्शत्वेन कारणत्वम् , एवं वहिव्याप्यालोकवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुक्तानुमितित्वावच्छिन्नं प्रति यदिव्याप्यालोकवान् पर्वत इति परामर्शस्वेन कारणत्वमित्येवाभ्युपगन्तव्यम्, तचानुमितिसामान्य प्रति व्याप्तिज्ञानसामान्य कारणमित्यनुमितित्वं व्याप्तिज्ञानस्य कार्यतावच्छेदकम् , वहिप्रकारकत्वं च तत्र व्याप्ती वहिनिरूपितत्वज्ञानप्रयोज्यमिति तद्वयाप्तिविशेष्यकस्य निरूपितत्वसम्बन्धेन वह्निप्रकारकस्य वद्दिननिरूपितत्वप्रकारकस्य वा ज्ञानस्य कार्यतावच्छेदकम्, पर्वतनिष्ठविशेध्यताकत्वं चानुमितौ व्याप्यज्ञाने पर्वतनिष्ठविशेष्यकत्वप्रयोज्यमिति पर्वतनिष्ठविशेष्यताकत्वमनुमितौ पर्वतविशेष्यकव्याप्यज्ञानस्य कार्यतावच्छेदकम् , तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तदेव कारणमिति परामर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शः कारणमिति परामर्शाव्यवहितोत्तरत्वं परामर्शस्य कार्यतावच्छेदकत्वम्, तेषां च सर्वेषां पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनव्याप्यधूमत्वावच्छिन्न प्रकारताकनिश्चयात्मकपरामर्शाव्यवहितोत्तरपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनत्यावच्छिन्नप्रकारताकानुमितित्वशरीरे प्रविष्टत्वमिति भवत्यर्वसमाजसिद्धेन निरुतधर्मेण परामर्शनिरूपितकार्यता, एवं तत्त्वज्ञानादिनिरूपिता स्वाव्यवहितोत्तरमोक्षत्वाद्यवच्छिन्नकार्यताऽपि तथेत्यर्थः। तथा कालस्य देशस्यापि कारणत्वं परमतेऽवश्यमभ्युपेयमिति तद. पेक्षया लाघवादेकस्य तथा भव्यत्तस्यैव कारणत्वं युकं तत एव नियतकालनियतदेशविभिन्नकार्योत्पत्तिसम्भवेन कार्यकत्वैककाले नानाकार्योत्पत्त्येकदेशे नानाकार्योत्पत्त्यादेर्वारणसम्भवादित्याह-किञ्चेति । धारावाहिकस्थले इति- घटे चक्षुस्संयोगा. नन्तरं यावत्कालं विषयान्तरेण सह चक्षुस्संयोगो न भवति किन्तु पूर्वकालीन एव घटचक्षुस्संयोग एक एव तावत्कालीनोऽवतिष्ठते, तत्र घटचक्षुस्सयोगात् कामिकाणि घटज्ञानानि जायन्ते तद्धारावाहिकस्थलं तत्रेत्यर्थः । “कार्येककल्पनिरासाय" इत्यस्य स्थाने “ कार्यकत्वनिरासाय" इति पाठो युक्तः, यदेव पूर्वपूर्वज्ञान प्रति कारण तदेवोत्तरोत्तरज्ञान प्रति यदि कारणं तदा कारणभेदाभावात् कार्यभेदो न स्यात् किन्तु कार्यकत्वमापद्यतेल्यतः कार्यकत्वापत्तिवारणायेति तदर्थः । तत्तत्क्षणत्वेन कालस्य कारणतेति- तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्ववर्तितत्तत्क्षणत्वेन कालस्य कारणत्वमिति तत्तत्कालघटितसामग्रीभेदात् तत्तज्ज्ञानरूप कार्यभेद इति भवति कार्यकत्वनिरास इत्यर्थः । ननूत्तरोत्तरज्ञानं प्रति पूर्वपूर्वज्ञानं कारणमिति कारणमेदात् कार्यभेदस्य सम्भवेनेत्येतावतापि कार्यकत्वनिराससम्भवेन किं कालस्य कारणत्वकल्पनयेत्यत आहशानानामिति । अथवा "कार्यककल्पनिरासाय" इत्यस्य स्थाने “ कार्यककालत्वनिरासाय" इति पाठो युक्तः,