________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
शाश्वतप्रतिमास्थले, अन्यत्र स्खनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथास्वम् , तादृशशिष्टाचारेण तथैव विधिबोधनादिति विकल्पेनानयोः पूजाफलप्रयोजक(का)व्याहतेने कोऽपि दोष इति, अत एव निश्रिताऽनिश्रितादिभेदेन स्वल्प-बहुभक्तिविधानादेनिविशेषाक्षेपकत्वेन व्यवस्थितिविकल्पोत्पादकं सङ्गच्छते । अत एव चाविधिप्रतिष्ठितेऽप्यविच्छेदादिकारणालम्बनोपबृंहितवैज्ञानिक विधिना विधिप्रतिष्ठिततुल्यतामामनन्ति सम्प्रदायवृद्धाः, भावशोधितशुद्धनिमित्तनिमित्तकैकान्तशुद्ध्यभावेऽपीदानीतनयतिधर्मपौषधादिक्रियावत् , तत्र भावशोधनमात्रेण मध्यमशुद्ध्यप्रच्यवात् , तस्या अपि च शुभानुबन्धनसारत्वादिकमुपपादितं प्रतिमाशतकादौ । तस्मात् स्थापना ताटस्थ्येन भगवद्गुणस्मारकतया तदाहार्यारोप. प्रयोजकतया सङ्ग्रहनयेनाप्यवश्यं स्वीकर्तव्येति व्यवस्थापितम् ॥ १०६ ॥
एतेन तदनभ्युपगन्ता व्यवहारोऽपि निरस्त इत्याह
प्रतिष्ठितपूजनगतेष्टसाधनत्वम्, तनिर्वाहकत्वेन- परम्परया तत्सम्पादकत्वेन, पूजाफलप्रयोजकत्वं प्रतिष्ठाया इत्यर्थः। तच उक्तदिशा पूजाफलप्रयोजकत्वं च । अन्यत्र तु शाश्वतप्रतिमास्थले तु । अनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव इयं प्रतिमाऽनादिप्रतिष्ठितेत्याकारकप्रत्यभिज्ञाया एव, एवकारेण तत्र प्रतिष्ठाया उक्कदिशा प्रयोजकत्वस्य व्यवच्छेदः । तथात्वं प्रयोजकत्वम् , एवं च तत्र प्रतिछिता प्रतिमां पूजयेदिस्यत्र प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थः, तथा च प्रधानविधावपि प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थोऽर्थादायात्येवेति बोध्यम् । एकरूपस्यापि विधिवाक्यस्यैवमर्थभेदबोधकत्वं कथमित्यपेक्षायामाह-ताशशिष्टाचारेणेति- कृत्रिमप्रतिमास्थले प्रतिष्ठित. प्रतिमापूजने शिष्टस्य प्रवृत्तिः, शाश्वतप्रतिमास्थले अनादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानप्रतिमापूजने प्रवृत्तिरित्येवं विभिन्नशिष्टाचारेणेत्यर्थः । तथैव पूर्वोपदर्शितप्रकारेणैव । विकल्पेन क्वचिदेकस्य प्रयोजकत्वं कचिदन्यस्येत्येवं विकल्पेन । अनयोः प्रतिष्ठा-प्रतिष्ठितत्वप्रत्यभिज्ञयोः । “पूजाफलप्रयोजक(का)ध्याहते" इत्यस्य स्थाने “ पूजाफल प्रयोजकस्वाव्याहते" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । अत एष विकल्पेनानयोः पूजाफलप्रयोजकत्वादेव, अस्य 'सङ्गच्छते' इत्यनेनान्वयः । निश्रितेत्यादि-निधित:-- प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितः, तद्भिन्नोऽनिश्रितः, प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितप्रतिमायां तदन्यजनानां स्वल्पभक्तिः, तद्भिन्नायां च बहुभक्तिः, तादृशस्वल्पबहुभक्तिविधानादेनिविशेषापेक्षकत्वेनेत्यर्थः । अत एव च उक्तकारणादेव च । अस्य आमनन्तीत्यनेनान्वयः। अविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिमतिक्रम्य प्रतिष्ठितेऽपि प्रतिबिम्बे । अविच्छेदादीति- प्रतिष्ठासमयादारभ्य बहुकालपर्यन्तं यथावज्जनसमूहकृतवन्दनपूजनाद्यनुवर्तननरन्तर्यलक्षणाविच्छेदादिस्वरूपकारणालम्बनेनोपहितोऽतिपुष्टिं नौतो यो वैज्ञानिको विधिः प्रतिष्ठितप्रतिमोद्देश्यकभगवदभेदाध्यारोपात्मकज्ञानविधिस्तेन तदलेनाविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिप्रतिष्ठितस्य तुल्यतां सदृशतां सम्प्रदायवृद्धा आमनन्तीत्यर्थः । उक्तार्थोपोद्वलनाय दृष्टान्तमाह-भावेति- "भावशोधितशुद्ध" इत्यस्य स्थाने भावशोधिते शुद्ध" इति पाठोऽन्वयानुगुणः; भावशोधिते निर्मलभक्तिप्रभृतिभावेन शुद्धतामुपगते, शुद्धं स्वरसतः शुद्धं यन्निमित्तं तन्निमित्तका यकान्तशुद्धिस्तस्या अभावेऽपीदानीन्तनयतिधर्मपौषधादिक्रिया यथा भावशोधनमात्रेण शुद्धनिमित्तनिमित्तकक्रियातुल्या तथेत्यर्थः । तत्र इदानीन्तनयतिधर्म-पौषधादिक्रियायाम् । तस्या अपि च इदानीन्तनयतिधर्म-पौषधादिक्रियाया अपि पुनः । शुभानुबन्धसारत्वात् शुभानुबन्धफलत्वात् । एतद्विस्तृतप्ररूपणं निजनिर्मितप्रतिमाशतकादिप्रन्थे अस्माभिः कृतमिति तद्विशेषजिज्ञासुभिस्तत्र परिशीलनं विधेयमित्युपदेशाभिप्रायेणाहइत्यादिकमुपपादितं प्रतिमाशतकादाविति । सङ्ग्रहनयोऽपि स्थापनानिक्षेपमभ्युपगच्छतोति प्रकृतमर्थमुपसंहरतितस्मादिति । ताटस्थ्येन भावभिन्नत्वे सत्यपि भावसादृश्येन, तदाहार्यारोपप्रयोजकतया तस्य- मावजिनस्य, प्रतिमायां य आहार्य आरोप:- अभेदाध्यवसायस्तस्य प्रयोजकतया ॥१०६॥
सप्तोत्तरशततमपद्यमवतारयति-पतेनेति- अस्य निरस्त इत्यनेनान्वयः। तदनभ्युपगन्ता स्थापनानिक्षेपानभ्युपगन्ता । व्यवहारोऽपि व्यवहार इति केषाश्चिदाचार्याणां कदाग्रहोऽपि, अथवा व्यवहारोऽपीत्यस्य स्थाने व्यवहार