________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। २९१ तस्याः फले व्यभिचारात् , अशाश्वता नां - कृत्रिमप्रतिमानां पूजायाम् , प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः कः ? अप्रतिष्ठितं न पूजयेदिति निषेधनं च किम् ? प्रतिष्ठा-तदभावयोरिष्टानिष्ट साधनतया व्यभिचारात् , अभावेन तत्र विधि-निषेधार्थान्वयस्यायोग्यत्वादिति भावः ॥ १०५ ।। कथमेतन्निरस्तम् ? इत्याह
पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः ।
शाश्वताऽशाश्वतार्चासु, विभेदेन व्यवस्थिताः ॥ १०६ ॥ नयामृत-पूजादीति । पूजादिविधयः-प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणाः, ज्ञानविधेः-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदित्यागमवाक्यात्मकस्य, अङ्गित्वं-प्रधानत्वम् , आश्रिताः, शाश्वता-ऽशाश्वताचर्चासु, विभेदेन-भिन्नरूपेण व्यवस्थिताः । तथा च प्रतिष्ठाया न पूजासह. कारित्वम्, किन्तु स्वकर्तव्यताबोधकविध्यता । यत्र विधिविषयनिर्वाहकत्वेन प्रयोजकत्वम्, तचा. "इदं प्रथमतो" इत्यस्य स्थाने " इदं प्राथम्ये तेन प्रथमतो" इति पाठो भवितुमर्हति, इदमादिपदं प्राथम्यरूपार्थे वर्तते, तेन आदी-इत्यस्य प्रथमत इत्यर्थः । शाश्वतप्रतिमा सर्वदैव व्यवस्थितव. तत्र प्रतिष्ठा प्रथमतो नास्त्येव, अतस्तत्र प्रतिष्ठामन्तरेण शाश्वतप्रतिमार्चनतः फलं भवतीति तत्रैव शाश्वतप्रतिमार्चन एव, तस्यार प्रतिष्ठायाः, फले प्रतिमाऽर्चनजन्यफले, व्यभिचारात् व्यतिरेकव्यभिचारात् , प्रतिष्ठाया अभावेऽपि प्रतिमापूजनजन्यफलस्य भावात् । अशाश्वता पूजायामित्यस्य विवरणम् - अशाश्वता नां-कृत्रिमप्रतिमानां पूजायामिति । को विधिरित्यस्य विवरण- प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः क इति । किं निषेधनमित्यस्य विवरणम्- अप्रतिष्ठितं न पूजयेदिति निषेधनं च किमिति । विधि-निषेधयोरभावे हेतुमुपदर्शयति-प्रतिष्ठेति- शाश्वतप्रतिमायां प्रतिष्ठाया अभावेऽपि तत्पूजनत इष्टफलस्य भावेन व्यतिरेकव्यभिचारात् प्रतिष्ठाया इष्टं प्रति न कारणत्वम् , एवं शाश्वत तिमायां प्रतिष्ठाभावस्य सत्त्वेऽपि न भवत्यनिष्टफलमित्यन्वयव्यभिचारात् प्रतिष्ठाभावस्य नानिष्टफलं प्रति कारणत्वमित्येवं प्रतिष्ठाप्रतिष्ठाऽमावयोर्व्यभिचारादिष्टानिष्टसाधनत्वयोरमावेन प्रतिष्ठितां प्रतिमा पूजयेदित्यत्र प्रतिष्ठित प्रतिमापूजने विध्यर्थेष्टसाधनत्वान्वयस्यायोग्यत्वात् , अप्रतिष्टितं न पूजयेदित्यत्र अप्रतिष्टितप्रतिमापूजने निषेधविध्यर्थानिष्टसाधनत्वान्वयस्यायोग्यत्वादि. त्येवमत्र भावार्थ इत्यर्थः । “प्रतिष्ठा-तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन" इत्यस्य स्थाने "प्रतिष्ठातदभावयोरिटानिष्टसाधनत्वयोयभिचारादभावन" इति पाठः समीचीन:, एतत्पाठानुसारेणैवानन्तरमुपवर्णितोऽर्थ इति ॥ १०५ ॥
षडुत्तरशततमपद्यमवतारयति- कथमिति- केन प्रकारेणेत्यर्थः, एतत् आध्यात्मिकाभासानां मतम् , निरस्तं खण्डितम् , इत्याह एवं प्रश्ने सत्युत्तरं कथयति । विवृणोति-पूजादीतीति । पूजादिविधयः किंस्वरूपा प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा इति । ज्ञानविध्याङ्गित्वमिति समस्तं व्यासार्थोपदर्शनेन विवृणोतिज्ञानविधेरिति । किस्वरूपस्य ज्ञान विधेरित्यपेक्षायामाह- प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदि. स्यागमवाक्यात्मकस्यति । अङ्गित्वमित्यस्य विवरण- प्रधानत्वमिति । आश्रिताः आश्रित्य प्रवृत्ताः । अतो शानविधिः प्रधान पूजाविधिस्तु तदसमिति प्रधाने न भवति विकल्पः किन्तु तदङ्ग एवेति यथा प्रधानविध्युपपत्तिस्तथा तदनविधिर्विकल्पनीय इत्याशयेनाह-शाश्वताऽशाश्वता स्विति- शाश्वत प्रतिमाऽशाश्वतप्रतिमास्वित्यर्थः। विभेदेने त्यस्य विवरण-भिन्नरूपणेति । तथा च ज्ञानविध्यानां पूजादिविधीनां भिन्नरूपेण व्यवस्थितौ सत्यां च । प्रतिष्ठाया न पूजासहकारित्वं प्रतिमापूजाफले प्रतिष्ठाया न कारणत्वम् । एवं सति प्रतिष्ठा निरर्थिकैव स्यादिति पृच्छतिकिनिस्वति । उत्तरयति-स्वकर्तव्यतेति- " स्वकर्तव्यताबोधकविध्यङ्गता । यत्र विधि” इत्यस्य स्थाने " स्वकर्तव्यताबोधकविध्यङ्गतापनविधि" इति पाठः समीचीनः, तस्यायमर्थ:- स्वस्या:- प्रतिष्ठायाः, कर्तव्यताबोधको यो विधिः-प्रतिष्ठितां प्रतिमो भगवदभिन्नत्वेनाध्यारोपयेदिति, तस्याङ्गतापनो विधि:- प्रतिष्ठितां प्रतिमा पूजयदिति, तद्विषयः