________________
२९०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चौत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेति चिन्तामणिकारादप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे ॥ १०३ ॥ उक्तमेव वक्ष्यमाणफलान्वयेनाह
तत्कारणेच्छाजनकज्ञानगोचरबोधकाः ।
विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ॥ १०४ ॥ नयामृत-तत्कारणेति । तस्य-आहार्यारोपस्य, कारणं या इच्छा, तज्जनक-यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम् , तद्गोचरीभूतप्रतिष्ठाया बोधका:- इष्टसाधनस्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत् , विधयोऽपि-विधिवाक्यान्यपि, उपयुज्यन्ते-फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठितप्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तो पूजाफलप्रयोजक. रूपसिद्धेः, तेनेदं वक्ष्यमाणं दुर्मतम् , आध्यात्मिकाभासानां, हतं-निराकृतम् ॥ १०४ ॥ किं तद् ? इत्याह--
प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने ।
अशाश्वता_पूजायां, को विधिः किं निषेधनम् ? ॥ १०५ ॥ नयामृत-प्रतिष्ठेति । शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां, तत्रैव स्पर्शाभावविशिष्टप्रतिष्टाध्वंसत्वेन तादृशध्वंसविशिष्टप्रतिमापूजनत्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्यवच्छेदः। ननु प्रत्ययस्य प्रयुक्ताहार्यारोपविषये लक्षणापक्षे तस्य शक्यार्थवत्ता न स्यादत आह-तप्रत्ययस्येति ।
औत्सर्गिकेन कृत्प्रत्ययविधायकसामान्यशास्रोपस्थापितेन । “कृत्प्रत्ययेनैवा" इत्यस्य स्थाने “ कृत्प्रत्ययार्थेनेवा" इति पाठो युक्तः, धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि तप्रत्ययस्य भविष्यति, कृत्प्रत्ययार्थेनवेत्येवकारेण धंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्रस्मारितार्थनार्थवत्त्वस्य व्यव. च्छेदः, एतेन वर्तमान प्रतिष्ठात्मकपूजाया अपि फलवत्त्वमुपपद्यतेतरामित्यावेदितं भवतीति । इति एवंस्वरूपम् चिन्ताभणिकारादपि गङ्गे शोपाध्यायादपि, अतिसूक्ष्म विशिष्टशेमुषोशालिबुधैकगम्यम् , अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम् , घयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः ॥ १०३ ॥ ___ चतुरुत्तरशततमपद्यमवतारयति- उक्तमेवेति- अनन्तरपद्याभिहितमेवेत्यर्थः। वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं तत्सम्बन्धेन । विवृणोति- तत्कारणेतीति । अनेकसमाससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति-तस्येत्यादिना । तस्येत्यस्य विवरणम्- आहार्यारोपस्येति । तज्जनकम् इच्छाजनकम् । यदित्यस्य ज्ञानमित्यनेनान्वयः। तज्ज्ञानं किंजनितमित्यपक्षायामाह- प्रतिष्ठितामिति । तद्गोचरीभूतेति- तादृशज्ञानविषयीभूतेत्यर्थः । बोधका इति विषय इत्यनेनान्वितम् । कथं बोधका इत्यपेक्षायामाहइष्टसाधनत्वबोधवादिद्वारेति। तदुत्पत्तिहेतवः प्रतिष्ठित प्रतिमाविशेष्यकभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञानजनकाः। विधयोऽपीयस्य विवरण-विधिवाक्यानीति- प्रतिष्टिता प्रतिमां भगवदभेदेनाध्यारोपयेदित्यादीनीत्यर्थः । उपयुज्यन्ते इत्यस्य विवरणं-फलवन्तो भवन्तीति। कथं फलवन्तो भवन्तीत्यपेक्षायामाह- तेरिति-विधिवाक्यरित्यर्थः। प्रतिष्टोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् । इदमित्यस्य विवरण- वक्ष्यमाणमिति । केषां दुर्मतमित्यपेक्षायामाह- आध्यात्मिकामासानामिति । हतमित्यस्य विवरण-निराकृतमिति ॥ १०४ ॥
पञ्चोलरशततमपद्यमवतारयति-किं तदिति- आध्यात्मिकाभासानां मतं किंस्वरूपमित्यर्थः । विकृणोति-प्रतिष्ठेतीति ।