________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
२९३ एतेन व्यवहारेऽपि, स्थापनाऽनाग्रहो हतः ।
तत्रार्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ॥ १०७ ॥ नयामृत-एतेनेति । एतेन-अनुपदोक्तयुक्तिकदम्बकेन सङ्घहे स्थापनाव्यवस्थापनेन, व्यवहारेऽपि, स्थापनाया अनाग्रह:-अस्वीकारो, हतः-निरस्तः, केषाञ्चिदाचार्याणाम्, यतस्तत्र-व्यवहारे, नाम्नापि-नामनिक्षेपेणापि, व्यवहर्तरि-व्यवहारमुपगच्छति, किमिदमर्धजरतीयम्- यदुत स्थापनाया न व्यवहार इति, नहीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसाङ्कर्यमित्येकमाद्रियमाणस्यापरं च परित्यजतः केवलं आहोपुरुषिकामात्रमेवेति ॥ १०७ ।। ऋजुसूत्रेऽपि द्रव्यनिक्षेपं ये न स्वीकुर्वते तन्मतं निरूपयन्नाह
ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न।
व्याख्येया तैः कथं तत्र, द्रव्यावश्यकसूत्रगीः॥ १०८ ॥ नयामृत --ऋजुसूत्रेऽपीति । स्पष्टम् , व्याख्याप्रकारश्च यद्यप्यत्र नव्यनये प्रागभिहित एव, तथापि कथमित्यनेन सम्प्रदायविरोधाद् बिभ्यतां साम्प्रदायिकानां तथा नास्थेति व्यज्यते ॥ १०८ ॥ इति कदाग्रहोऽपीति पाठ एव । विवृणोति- एतेनेतीति । एतेनेत्यस्य विवरण- अनुपदोक्तयुक्तिकदम्बकेन साहे स्थापनाव्यवस्थापनेनेति । अनाग्रह इत्यस्य विवरणम्- अस्वीकार इति। हत इत्यस्य विवरण-निरस्त इति । निरासहेतुपरतयोत्तरार्द्ध योजयति-यत इति । तत्रेत्यस्य विवरण-व्यवहार इति । नानाऽपीत्यस्य विवरण-नाम| निक्षेपेणापीति, व्यवहतरीत्यस्य व्यवहारमुपगच्छतीति-सति सप्तमीयम् । अर्द्धजरतीयं कस्मादित्यपेक्षायामाहयदुतेति- यथा नाम्रो व्यवहारस्तथा स्थापनाया अपि व्यवहारः, तत्र नाम्रो व्यवहार इति पूत्करोति, स्थापनाया न व्यवहार इति स्वीकरोति, एतदर्द्धजरतीयमित्यर्थः। स्थापनायां व्यवहारस्य दाय व्यवस्थापयति-नहीति- अस्य भवतीत्यनेनान्वयः। न भवतीति नहीति निषेधद्वयन इन्द्रप्रतिमायामिन्द्र व्यवहारो भवत्येवेत्यवधारितम् । तादृशव्यवहारस्य भ्रान्तत्वान वस्तुसाधकत्वमित्यपि नास्तीत्याह-नवेति- इन्द्रप्रतिमायामिन्द्रव्यवहारो भवन्नपि भ्रान्त एवेत्यपि नैवेत्यर्थः स्थापना नामादिष्वन्तर्भूतेति स्थापनाव्यवहारो नामादिव्यवहार एवेत्यपि नास्तीत्याह-नवेति-स्थापनाव्यवहारस्य नामादिरूपो यः स्थापनायाः प्रतिरक्षः, तद्व्यवहारेण समं साङ्कर्यमपि न, किन्तु नामादिव्यवहारासङ्कीर्ण एवं स्थापनाव्यवहार इत्यर्थः । इति एतस्मात् कारणात् । एकं नामादिव्यवहारम् । आद्रियमाणस्य स्वीकुर्वाणस्य । अपरं च स्थापनान्यवहारं च। परित्यजतः अस्वीकुर्वतः परस्य । केवलं युक्तिरिक्तम्, आहोपुरुषिकामात्रमिति- आश्चर्यकारिस्वपौरुषमात्रप्रकटनम् ॥ १.७॥ ___ अष्टोत्तरशततमपद्यमवतारयति-ऋजुसूत्रेऽपीति- ऋजुसूत्रनयेऽपीत्यर्थः । ये नव्यतार्किकाः श्रीमन्तः सिद्धसेनदिवाकराः। तन्मतं नव्यानां मतम् । व्याख्यानस्य स्पष्टत्वादनादरणेऽपि प्रतीकं गृह्णाति-ऋज़सूत्रेऽपीति। पदार्थस्य स्पष्टत्वादु व्याख्यान नापेक्षितमित्याह-स्पमिति । ननु " तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थतो मताः। सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥ १८॥" इति पद्यव्याख्याने तार्किकानुसारिणस्वित्यादिना सिद्धसेनदिवाकरमतोपवर्णने 'ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तथा उक्तम् “उजुसूयस्स एगे अणुवउत्ते एग दवावस्सयं पुहुत्ते णेच्छई"
] इति सूत्रं विरुध्येत' इति सैद्धान्तिकाक्षेपस्य प्रतिविधानमित्यम्-' उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् ' इति ग्रन्थेन द्रव्यावश्यकसूत्रगी व्यतार्किकमतानुसारिभिव्यख्यिातैवेति व्याख्येया तेरित्युत्तरार्द्धसङ्गमनं कथमित्यपेक्षायामाह-व्याख्याप्रकारश्चेति-द्रव्यावश्यकसूत्रवचनप्रकारश्चेत्यर्थः । अत्र नयोपदेशवृत्तौ । कथमित्यनेन कथमिति वचनेन, अस्य 'व्यज्यते' इत्यनेन सम्बन्धः 1 तथा नास्था यथा नव्यानुसारिभिव्याख्यातं तथा व्याख्याने नादरः ॥ १०८॥