________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेधः ।
स्यात्, प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिना फलविशेषहेतुत्वस्येत्थमेव वक्तुं शक्यत्वात्, न च यजमानगतादृष्टं तदाहितं तथा, चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगात्, यजमानस्य तददृष्टक्षये पूज्यत्वानापत्तेः । एतेन सम्बन्धविशेषेण यजमानगतादृष्टस्य प्रतिमागतस्वसमर्थनमपि प्रत्याख्यातम् । यत्तु 'प्रतिष्ठाविधेर्देवतासविधानस्य स्वाभेद-स्वीयत्वादिज्ञान-तदाहितसंस्काररूपस्योत्पादात् फलोत्पत्तिः, चाण्डालादिस्पर्शे च तदभावात् फलाभावः' इति कस्यचिन्मतम् , तत् तु मुक्तिप्रतिष्ठितदेवताया अभिमानाभावात् प्रतिष्ठया तदुपकारस्याशक्यक्रियात्वाचाचायैरेव दूषितम् , तदुक्तम्" मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं, तदधिष्ठानाद्यभावेन ॥१॥ इज्यादे च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडा समा भवति " ॥२॥
[
] इति । यदपि प्रतिष्ठितं पूजयेदिति विधिः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शाभावविशिष्टप्रतिष्ठाध्वंसस्तद्विशिष्टप्रतिमापूजनं वा फलप्रदम् , क्तप्रत्ययादतीतत्वलाभाद्' इति गङ्गेशोपाध्यायैरुक्तं तदपि तुच्छम् , प्रतिष्ठया जनितं तत् खफलं यजमाने जनयित्वा नश्यत्येवेति तन्नाशानन्तरमपि चिरं कालं प्रतिष्ठितप्रतिमा पूजनीयैव भवति लोकानाम्, ततः फलविशेषोत्पत्तिरपि भवति, यदि च यजमानगतादृष्टमेव प्रतिष्ठित प्रतिमापूजनादिक विशेषजनकं तदा तददृष्टनाशे तददृष्टरूपफलविशेषजनकस्याभावात् तदानीं फलविशेषो न स्यादेवेति निष्फलं पूजादिकं न प्रेक्षावद्धिराचरणीयमिति पूज्यत्वमेव प्रतिमाया न भवेदित्याह-यजमानस्यति । तदष्टक्षये प्रतिष्ठाजनितादृष्टस्य नाशे सति । पूज्यत्वानापत्तेः प्रतिष्ठितप्रतिमाया: पूजनीयत्वं न स्यादित्यर्थः। एतेनेत्यस्य प्रत्याख्यात. मित्यनेनान्वयः, एतेन प्रतिष्ठाहितयजमानगतादृष्टनाशे प्रतिमायाः पूज्यत्वानापत्तिदोषेण । सम्बन्धविशेषेण स्वाश्रयकर्षक प्रतिष्ठाकर्मत्वलक्षणपरम्परासम्बन्धेन । कस्यचिन्मतान्तरमुद्भाव्य दूषयति- यत्त्विति- अस्य 'इति कस्यचिन्मतम्' इत्यनेनान्वयः। प्रतिष्ठाविधेः, इत्यस्य 'उत्पादाद्' इत्यनेनान्वयः । “देवतासविधानस्य" इत्यस्य स्थाने
बतासन्निधानस्य" इति पाठो युक्तः । देवतायाः स्वर्गादिस्थानगताया अत्रागमनासम्भवात् तत्संयोगलक्षणं सन्निधान न सम्भवतीत्यत आह-स्वाभेदेति- देवतायाः प्रतिमायां यत् स्वाभेदज्ञानं मदभिन्नेयमित्याकारकम्, स्वीयत्वादिज्ञान मदीयेयं प्रतिमेत्याकारकं शानं स्वीयत्वज्ञानम्, आदिपदादेतस्याः प्रतिमायाः स्वाम्यहमित्यादिज्ञानस्योपप्रहः, स्वाभेदज्ञानस्वीयत्वादिज्ञानरूपत्वे देवतासन्निधानस्य कालान्तरेऽभावात् तज्जन्यफलं कालान्तरे न स्यादत आह-तदाहितेतिस्वामेदज्ञान-स्वीयत्वादिज्ञानजन्येत्यर्थः, तदभावात् स्वाभेद-स्वीयत्वादिज्ञान-तदाहितसंस्काररूपस्य देवतासन्निधानस्याभावात् । तत्तु तन्मतं पुनः, अस्य दूषितमित्यनेनान्वयः । कस्माद्धेतोः कैर्दूषितमित्यपेक्षायामाह-मुक्तीति- मुक्तो प्रतिष्ठितायाःस्थितायाः, देवतायाः- सिद्धात्मस्वरूपायाः, ममेयं प्रतिमा, अस्याः प्रतिमाया अहं स्वामीत्याकारकाभिमानाभावात्, कृत. कृत्यस्य भगवतः सिद्धस्य प्रतिष्ठया कस्यचिदुपकारस्याशक्यक्रियात्वात् कर्तुमशक्यत्वाच, आचार्यरेव जैनाचायैरेव, दूषितं खण्डितमित्यर्थः । आचार्योकमतखण्डनहेतुमुपदर्शयति- तदुक्तमिति- मुक्त्यादौ प्रतिष्ठिताया देवतायास्तु तत्त्वेन- प्रतिमास्वामित्वादिना, अभिमानो न, स्थाप्ये- मुक्तिप्रतिष्ठितदेवे, इयं-प्रतिमा मुख्या ने च, मुक्तिप्रतिष्ठितदेवस्य प्रतिमाद्यधिष्ठानाद्यभावेनेत्यन्वयः, अर्थस्तु व्यक्त एव ॥ १ ॥ इज्यादेः- प्रतिष्ठादिकर्मणः, तस्याः-मुक्तिप्रतिष्ठितदेवतायाः, कश्चिदुपकारोऽत्र न च मुख्यः, इति- एतस्मात् कारणात्, एषा-देवतासान्निध्यादिरूपा तदतत्त्वकल्पना बालकोडासमा भवतीत्यन्वयः, अर्थस्तु सुगमः ॥ २॥ चिन्तामणिकृन्मतमुपदर्शनपूर्वकं प्रतिक्षिपति- यदपीति- अस्य गनेशोपाध्यायैरुकमित्यनेनान्वयः । “विधिः" अस्य स्थाने “ विधेः" इति पाठः सम्यक्, प्रतिष्ठितं पूजयेदिति विधिवाक्यादित्यर्थः । प्रतिष्ठेतिप्रतिष्ठाकालीनो यो यावदस्पृश्यस्पर्शाभावस्तद्विशिष्टः प्रतिष्ठाध्वंसः फलप्रदः, वा अथवा, निरुक्तप्रतिष्ठाध्वंसविशिष्टप्रतिमापूजनं फलप्रदम् । क्तप्रत्ययात् प्रतिष्ठितमित्यत्र तप्रत्ययात् , मतीतत्वलाभात् प्रतिष्ठाया अतीतत्वलाभादित्यर्थः ।