________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
"भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्। स्वात्मन्येव परं यत् स्थापनमिह वचननीयोः ॥१॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" ॥२॥
____] इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्ती प्रतिमायां तद्व्यवहारः कथम् ? अत आहबिम्बे च सा- स्थापना, उपचारत:- स्वात्मनि स्थापितस्य भावस्थालम्बनतया समापत्तिविषयी. क्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः ॥ १०२॥
नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः
warranawaranrarmaarwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwner
Annuhunnnnnnnnnnnnnnana
परम्परया सम्बन्धस्तेन सम्बन्धेन “एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः । उक्तार्थसामनोपोदलकं प्राचीनपद्यद्वयमुपदर्शयति- तच्चेति- उतार्थसङ्गमनं चेत्यर्थः । देवतोद्देशात् स्वात्मन्येव निजमावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात् स्थापनम् , इह प्रतिमायाम् , उौः परम्परया, वचननीत्या तीर्थकरवचनोपदर्शितनीत्या, भवतीति शेषः ॥ १॥ यत् स्थाप्येन परमाया एवं समरसापत्तेः परमं बीजमपीदं हन्त तत् एषैव मुख्यति विज्ञेयेति सम्बन्धः यत यस्मात् कारणात् . स्थाप्येन जिनेन
उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्ट निमित्तमपि, इदं जिनवचनम्, तत् तस्मात् कारणात् , परेव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः ॥२॥ 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति- नन्वेवमिति । एवम् उक्तप्रकारेण । निश्चयतः निश्चयनयतः। तद्वयवहारः स्थापनाव्यवहारः। बिम्बे चेति-प्रतिमायां चेत्यर्थः। सेत्यस्य विवरणं-स्थापनेति । उपचारतः इत्यस्य विवरण- लक्षणयवेति । तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति-स्वात्मनि स्थापितस्य भावस्यालम्बनतथेति-अस्य लक्षणयैवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनमावस्य, आलम्बनतयेति-जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बद्धस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः । समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदजनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रानुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया ॥१०॥
व्युत्तरशततमपद्यमवतारयति-नन्वेचमिति। तावता यजमानगतादृष्टलक्षण प्रतिष्ठाफलोपपादनेन । वन्दकपूजकादीनां प्रतिमावन्दनकर्त-प्रतिमापूजनकर्तप्रभृतीनाम् । का सिद्धिः? न काचित् सिद्धिः । सा वन्दनक-पूजकादीनामपीष्टसिद्धिः। हि यतः । प्रतिष्ठाहितः- प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पूजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शत्यादिशब्दवाच्यो वा, अतिशय: अप्रतिष्ठित प्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् खीकृतो भवेत् । “प्रतिष्ठितप्रतिमावन्दन पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादीनां" इति पाठो युक्तः । इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव । ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशय प्रतिक्षिपति-न चेति । तदाहितं प्रतिष्ठाक्रियाजनितम् । तथा प्रतिष्ठित प्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् । निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्श जाते ऽपि तहन्दनादिकर्तृणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः । किश्च यजमानगतं यदष्टं