________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः २८५ प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात्, ततः प्रतिष्ठादिविधिजनितः प्रतिभागतोऽतिशयविशेषः कश्चित् स्थापनानिक्षेपो निरुच्यतामित्याकाङ्क्षायां " सन्ता तित्थयरगुणा” इत्यादिगाथायामेव व्याख्यानान्तरं सूचितं, पक्षानन्तरं परिष्कुर्वन्नाह
यद्वा प्रतिष्ठाविधिना, स्वात्मन्येव परात्मनः।
स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः ॥ १०२ ॥ नयामृत०-यद्वेति । यद्वा- पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मन:परमगुणवतत्रिभुवनभर्तुः, ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सर्वक्रियाणां तत्फलानां चोद्देश्यसम्बन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसम्बन्धित्वस्यैव भाष्यादी व्यवस्थापनात्, परात्मन इत्युपलक्षणं स्वभावस्य, आहत्य हि प्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते, परम्परया तु तन्मूलपरमात्मानुध्यानविषयवचनाद्यप्रवर्तकत्वसम्बन्धस्मारितः, तञ्चप्रवृत्तावपि एवंस्वरूपाशयेन पूजाविधिविशिकावचने पूजाविधिविकल्पानां प्रवृत्तावपि, किन्तु प्रतिष्ठति-प्रतिष्ठासामान्य न किञ्चित् करोतीत्यत्र पूजाविधिविकल्पानां तात्पर्याभावादित्यर्थः । अन्यथा पूजाविधिविकल्पानां प्रतिष्ठासामान्यस्याकिच्चिकरत्वे तात्पर्याभ्युपगमे । प्रतिष्ठेति- सूत्रे यः प्रतिष्ठाविधिः- अनेन विधिना जिनप्रतिबिम्ब स्थापयेदित्याकारकस्तस्य वैयर्थ्य स्यादित्यर्थः । उपसंहरति-तत इति- तस्मात् कारणादित्यर्थः । “प्रतिभागतो" इत्यस्य स्थाने "प्रति. मागतो" इति पाठो युक्तः, तथा च प्रतिष्ठादिविधिना प्रतिमायां कश्चिदतिशयविशेष उपजायते, स एव च सफलत्वात् स्थापनानिक्षेप इत्येवं निरुच्यताम्- कल्प्यतामित्याकालायां सत्यामित्यर्थः। "व्याख्यानान्तरं सुचितं, पक्षानन्तरं" इत्यस्य स्थाने "व्याख्यान्तरसूचित, पक्षान्तरं" इति पाठो युक्तः, व्याख्यानान्तरं च " यद्वा तेषां गुणानामिदमध्यात्मम्" इत्यादिग्रन्येनोपदर्शितं प्राकू, पक्षान्तरं प्रतिष्ठाविधिना प्रतिमायां किमपि न भवतीति पक्षाद् विभिन्नः पक्षः-प्रतिष्ठाविधिना प्रतिमा स्थाप्यगणाध्यारोपो भवतीत्येवंस्वरूपस्तम् ।
विवृणोति- यद्धेतीति । यद्वेत्यस्य पक्षान्तरे इत्यर्थकथनम् । प्रतिष्ठाविधिना सूत्रोक्तप्रतिष्ठाविधिना, प्रतिष्ठाकारयितुरिति पूरणम् । स्वात्मन्येव प्रतिष्ठाकारयितृपुरुषात्मन्येव । परात्मन इत्यस्य विवरण- परमगुणवतस्त्रि
तिरिति- एतच्च जिनबिम्बप्रतिष्ठामधिकृत्य । “समापत्तिः स्थापना' इति मूले उकम्, तत्र समापत्तिः किंस्वरूपेत्यपेक्षायामाह- ध्यानतारतम्ये चेति- स्वात्मनि परमात्मनो ध्यानं समापत्तिः, ध्यानस्य च तरतमभावो. भवतीति ध्यान. तारतम्ये च सतीत्यर्थः, यदि ध्यानमेकरूपमेव स्यात् तदा तदात्मकसमापत्तेरनेकरूपतयोपवर्णनं न सातमतो ध्यानस्याप्यनेकरूपत्वमित्यावेदनाय 'ध्यानतारतम्ये च' इत्युक्तम्, तात्स्थ्ये ति- प्रतिष्ठाकारयित्रात्मस्थितत्वं परमगुणवतत्रिभुवनभर्तः समापत्तिः स्थापना स्थादित्यर्थः । तदअनत्वेति-प्रतिष्ठाकारयित्रात्मत्वेन परमात्मनो व्यापनत्वेत्यर्थः । ननु प्रतिष्ठाविधान प्रतिबिम्ब क्रियते कथं तत्रत्या स्थापना स्वात्मनीत्यत आह-निश्चयत इति--निश्चयनयत इत्यर्थः । तत्फलानां सर्वकियाफलानाम्, उद्देश्यसम्बन्धित्वेनेति- या किया यदुद्देश्येन क्रियते सा किया तत्फलं च तत्सम्बन्धिस्वेनैव व्यव
तिष्ठाविधिना स्थापना प्रतिमामुद्दिश्यैव कियत इति स्थापनातत्फलयोरुद्देश्यप्रतिमासम्बन्धित्वेन व्यवहियमाणयोरपि निश्चयनयतः स्थापनादिक्रियाकर्तृसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनादिति स्वात्मनि परमात्मनस्वास्थ्यतदजनत्वरूपा समापत्तिरेव स्थापनेत्यर्थः । परमात्मन इति यदुक्तं तत् स्वभावस्याप्युपलक्षणम् , तेन प्रतिष्ठा विधिना प्रतिष्ठाकारयितरि स्वभावः स्थाप्यते इत्याह- परमात्मन इत्युपलक्षणं स्वभावस्येति । अत्र हेतुमाह-आहत्य हीति। हि यतः, आहत्य साक्षादेव, प्रतिष्ठया प्रतिष्ठाविधिना, कारयितरि प्रतिष्ठाकारयितरि, स्वभाव एव परमात्मनः स्वभाव एव । ननु परमात्मनः स्वभावो यदि स्मृतिपथमुपगच्छेत् तदा तत्स्थापनं न्याय्यं स्यादित्यत आह-परम्परया वितिप्रतिष्ठामुलं यत् परमात्मानुध्यानविषयवचनं तस्य यत् तीर्थकरे आद्यप्रवर्तकत्वं तद्पो यः प्रतिमया समं तीर्थकरस्वभावस्य
सुवनभ