________________
૨૮૮
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
प्रतिष्ठारूपायां पूजायामेवागतेस्तत्र ध्वंसस्यैव फलजनकव्यापारस्याश्रयणे वादृष्टमात्रस्यैव दत्तजलाञ्जलीस्वप्रसङ्गात् , कथं चैवं प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्वेन प्रमीयमाणत्वस्य पूजाफलजनकतावच्छेदककोटौ निवेशेन प्रतिष्ठावत्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यमिति न किञ्चि. देतत् , तस्माद् वन्दनपूजाफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह
प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः ।
आहार्यारोपतः सा च, द्रष्टुणामपि धर्मभूः ॥ १०३ ॥ नयामृत-प्रतिष्ठितेति । सा-स्थापना, प्रतिष्ठितप्रत्यभिज्ञया समापन्नो यः परात्मा भगवान् तस्याहार्यारोपतः, द्रष्ट्रणामुपलक्षणाद् वन्दकानां पूजकानां च, धर्मभूः-धर्मकारणं भवति, अयं भाव:प्रतिमायां भगवदभेदारोपं विना न तावद् वन्दन-पूजनादिफलं हेतुसहस्रेणापि सम्पद्यते, स च काष्ठतदपि गद्देशोपाध्यायोक्तमपि । तुच्छत्वे हेतुमाह- प्रतिष्ठारूपायामिति - प्रतिष्ठारूपा या पूजा सा फलप्रदाऽमिमता, अन्यथा अफलायां तस्यां कस्यचित् प्रवृत्तिरेव न स्यात् , एवं च प्रतिष्ठारूपायां पूजायां निरुक्तप्रतिष्ठाध्वंसस्य तादृशध्वंस. विशिष्टप्रतिमापूजनस्य वाऽभावात् फलोत्पत्तिर्न स्यादित्यर्थः। ननु प्रतिष्ठारूपपूजातस्तदानीमेव फलं न भवति किन्तु कालान्तर इति फलोत्पत्त्यव्यवहितपूर्वक्षणे प्रतिष्ठा स्वरूपतो नास्त्येव किन्तु स्वजन्यध्यापारवत्त्वसम्बन्धेनैव, स्वजन्यव्यापारश्च प्रतिष्ठाध्वंस एवेति व्यापारविधया प्रतिष्ठाध्वंसस्य फलप्रदत्वं समस्त्येवत्यत आह-तत्रेति-प्रतिष्ठारूपपूजायामित्यर्थः । ध्वंसस्यैव प्रतिष्ठावंसस्यैव । अष्टमात्रस्यैवेति-चिरध्वस्तकर्मणोऽदृष्टलक्षणव्यापारमन्तरेण फलजनकत्वं न सम्भवतीत्येतावन्मात्रयुक्त्यैवान्यत्राप्यरष्ट करप्यते, यदि च स्वध्वंसद्वारा प्रतिष्ठाकर्म फलजनकं तदा कर्मान्तरमपि स्वध्वंसद्वारैव स्वफलं जनयिष्यतीति किमित्यदृष्टं तव्यापारत्वेन कल्पनीयमित्येवमदृष्टमात्रस्यैवोच्छेदः स्यादित्यर्थः, वस्तुतो ध्वंसव्यापारत्वं कल्पयितुमशक्यम् , तथा सति कारणीभूताभाषप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिष्ठाजन्यफलं प्रति प्रतिष्ठाध्वंसस्य कारणत्वे कारणी. भूतध्वंसरूपाभावप्रतियोगित्वेन प्रतिष्ठायाः प्रतिबन्धकत्वं प्रसज्यत इति । किश्च यत्र प्रतिष्ठितेऽपि प्रतिबिम्बे अप्रतिष्ठितत्वज्ञानं पूजकस्य तत्र तत्पूजकस्य तत्पूजाफलं न भवति, यदि तु प्रतिष्टाध्वंसस्य फलजनकत्वं तदा प्रतिष्ठावंसस्याप्रतिष्ठितत्वशानेऽपि सत्त्वात् तत्पूजाफलं स्यादित्याह-कथं चेति- अस्य न पूजाफलमित्यत्रान्वयः। एवं प्रतिष्ठाध्वंसस्य फलप्रदत्वे । ननु प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणप्रतिबिम्बपूजनं फलप्रदम् , यत्र प्रतिष्ठितेऽप्रतिष्ठितत्वज्ञानं तत्र प्रतिबिम्बे प्रतिष्ठाध्वंसवत्वेन प्रमीयमाणत्वं नास्यतस्तत्पूजनतः फलं न भविष्यतीत्यत आह-प्रतिष्ठाध्वंसवत्वेनेति। यत्राप्रतिष्ठितेऽपि प्रतिबिम्बे प्रतिष्ठाध्वंसवत्वस्य भ्रमस्तत्र तादृशभ्रमतस्तत्पूजकस्य तत्पूजाफलं न भवतीत्यतो-ज्ञायमानत्वस्येत्यनुक्त्वा प्रमीयमाणत्वस्येत्युक्तम् । निवेशेनेति स्थाने निवेशापेक्षयेति पाठः सम्यक, प्रतिष्ठाध्वंसवस्वापेक्षया प्रतिष्ठावत्त्वस्य लघुभूतत्वेन प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वापेक्षया प्रतिष्ठावत्त्वेन प्रमीयमाणत्वं लघ्वतः पूजाफलजनकतावच्छेदककोटौ तनिवेशस्यौचित्यम् । इति एतस्मात् कारणात् । एतत् गोशोपाध्यायोक्तम् । न किश्चित् तुच्छमित्यर्थः । उपसंहरति-तस्मादिति ।
विवृणोति-प्रतिष्ठितेतीति । सेत्यस्य विवरण- स्थापनेति । प्रतिष्ठितेत्यादिसमस्तवाक्यं विवृणोति-प्रतिष्ठितेति । निरुक्काहार्यारोपतो द्रष्टुणामिव वन्दकानां पूजकानां च प्रतिमा धर्मकारणं भवति, मूले तदप्रदर्शनेन न्यूनत्वं स्यादत आह- उपलक्षणाद् वन्दकानां पूजकानां वेति- मूले द्रष्टुपदं वन्दक-पूजकयोरप्युलक्षणन्यायात् प्रतिपादकमतो न न्यूनत्वम् । धर्मभूः इत्यस्य विवरणम्-धर्मकारणमिति । सर्व हि वाक्यं क्रियया परिसमाप्यते, यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्ति भवतीतिक्रियाऽध्याहियत इति शाब्दिकसम्प्रदायमवलम्ब्य भवतीति क्रियापदं योजितम् । शब्दशक्यार्थमुपदर्य भावार्थमुपदर्शयति- अयं भाव इति। स च प्रतिमायां भगवदभेदारोपः पुनः, अस्य सम्पादनीय इत्यनेनान्वयः। विरुद्धधर्मशानस्य भेदव्यजकत्वमिति भगवतः प्रतिमा काष्ठमयी पाषाणमयी मृन्मयो वा भवतीति