________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः।
२८३
तच्चायुक्तम्- लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव तद्धेतुत्यौचित्यालझणगौरवापेक्षया कार्यकारणभावगौरवस्य च महादोषत्वात् , किश्च स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहारादिना शुद्धताप्रतिसन्धानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः सङ्गच्छते ?, न च तत्र निरवद्यकर्मयुक्ततया अगृहीतासंसर्गकगुणसङ्कल्पेन पृथगेव निर्जराहेतुत्वाददोषः, तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धहेतुताया एव युक्तत्वात् प्रतिमावन्दनादुभयाभावापत्तेः, न च सत्वशुद्धिविधया कारणतायामयमेव प्रकारः, अव.
पद्विशेष्यकत्वमेव निरवद्यक भावयद्विशेष्यकत्वापेक्षया लघुभूतं प्रागुपदर्शितमिति तदनुसारेण सावद्यकर्मामाववद्विशेष्यकत्वेन गुणसङ्कल्पस्य निर्जराहेतुत्वमेव यु'कम् , अन्यथा निरवद्यकर्माभाववद्विशेष्यकत्वं गुरुभूतं विपर्यासलक्षणमापद्यतेत्यत आह- लक्षणगौरवापेक्षयेति- तथा च लक्षणगौरवमेव सह्यं न तु कार्यकारणभावगौरवमिति कार्यकारणभावलाघवानुरोधेन गुरुभूतं विपर्यासलक्षणमेवादरणीयमित्याशयः। सावद्यकर्माभाववद्विशेष्यकगुणसङ्करूपत्वेन हेतुत्वं प्रकारान्तरेण दूषयतिकिञ्चेति । स्थापनास्थलीयभावे स्थापनास्थलीयमनःसंकल्पविशेषलक्षणभावे । जातीति- जात्युपाध्यन्यतरकृतो यो विशेषस्तद्भिनविशेषस्याभावे सतीत्यर्थः । यथोक्तरूपेणैव हेतुत्वे सावद्यक भाववद्विशेष्यकगुणसङ्कल्पत्वेन रूपेणैव भावस्य कर्मनिर्जराहेतुत्वेऽभ्युपगम्यमाने । मायाच्छादितदोषे मायया कपटेनाच्छादितोऽदर्शनतां नीतः स्वगतो दोषो येन स मायाच्छादितदोषस्तस्मिन् , इदं च साधावित्यस्य विशेषणम् । आलयविहारादिना सूत्रबोधितालयावस्थान समयोचितविहाराद्याचरणेन । शुद्धताप्रतिसन्धानदशायां शुद्धोऽयं साधुरिति वन्दनकर्तृप्रतिसन्धानकाले । वन्द्यमाने साधी बन्दनकर्तुर्या निर्जरोत्पत्तिः सा कथं सङ्गच्छते ? काका न कथञ्चित् सङ्गता स्यात् , यतस्तत्र गुणसङ्कल्पलक्षणभावस्य सावद्यकर्माभाववद्विशेष्यकगणसङ्कल्पस्वलक्षणनिर्जराकारणतावच्छेदकधर्माक्रान्तत्वं नास्तीति । ननु मायाच्छादितदोषे साधौ गुणसङ्कल्पविशेषलक्षणभावस्य न सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन निर्जराहेतुत्वं, किन्तु निरवद्यकर्मयुक्ततयाऽग्रहोतासंसर्गगुणसङ्कल्पत्वेन, एवं च मायाच्छदितदोषे साधौ निरवद्यकर्मयुक्ततयाऽसंसर्गस्तथापि स न गृहीत इति निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पस्वस्य तत्र भावात् तेन रूपेण निर्जरां प्रति कारणत्वसम्भवेन ततो निर्जरोत्पत्तिः सङ्गच्छत एवेत्याशय प्रतिक्षिपति-न चेति । तत्र मायाच्छादितदोषे साधौ, भावस्येति शेषः 'सङ्कल्पेने ति स्थाने 'सङ्कल्पत्वेने ति पाठो युक्तः । निषेधे हेतुमाह-तथा सतीति तत्र निरवद्यकर्मयुक्तनयाऽगृहीताऽसंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति हेतुत्वे सतीत्यर्थः । तुल्यन्यायतयेति- निरवद्यकर्मयुक्त एव साधौ केनचित् स्वोत्प्रेक्षितकारणादिनाऽशुद्धताभ्रमे सत्यपि लोकानुवृत्तिमात्रेण वन्द्यमाने खीयश्रद्धाप्राबल्याद् बन्धोत्पत्तिरेव भवति ने निर्जरोत्पत्तिः, तत्र भावस्य सावधकर्मवद्विशेष्यकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वे बन्धोत्पत्तिर्न स्यात् , तस्य साधोः सावद्यकर्मवत्त्वाभावात् , अतः सावधकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेनैव बन्धं प्रति हेतुत्वं वाच्यम्, तथा हेतुतायां च निरुक्तसाधौ गुणसङ्कल्पस्य सावद्यकर्मयुक्तत्वे नाऽगृहीतासंसर्गकगुणसङ्कल्पस्वलक्षणबन्धकारणतावच्छेदकधर्माकान्तत्वाद् भवति ततो बन्धोत्पत्तिः, एवं च जिनप्रतिमायां न साक्यं कर्म नवा निरवयं कर्मति कर्मयाभावे तत्र भावस्य गुणसङ्कल्पविशेषरूपस्य न निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वम् , यतस्तत्र निरवद्यकर्मयुक्तताया अभावेन निरवद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति निर्जराकारणतावच्छेदकनिरुक्तधर्मानाकान्तात् तस्मान्न निर्जरोत्पत्तिः, एवं तत्र भावस्योक्तस्वरूपस्य न सावद्यकर्मयुक्तयाऽगृहीतासंसर्गकगुणसङ्कल्यत्वम् , यतस्तत्र सावद्यकर्मयुक्तताया अभावेन सावद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति बन्धकारणतावच्छेदकनिरुक्कधर्मानाकान्तात् तस्मान्न बन्धोत्पत्तिरित्येवं प्रतिमावन्दनादुभयाभावापत्तेरित्यर्थः। न चेत्यस्य वाच्यमित्यनेनान्वयः। अयमेव प्रकार: निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वेन निर्जरी प्रति कारणत्वम्, सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वमित्येव कार्यकारणभावकल्पनप्रकारः । मवञ्चकयोगविघया अवञ्चक:- वञ्चकत्वविकलो यो योगस्तद्विधया- तत्प्रकारेण, अवञ्चकयोगश्च त्रिविधः, तद्यथासद्योगवश्चकः क्रियावश्चकः, फलावञ्चकश्च, तत्स्वरूपं चेदम्-" सद्भिः कल्याण सम्पन्नदर्शनादपि पावनः । तथा दर्शनतो योग