________________
૨૮૨
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
रूपतामास्कन्दन् निर्जराहेतुः, अन्यत्र स्वसाक्शुभसङ्कल्परूपत्वेन निरवद्यकाभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रत्वात् , सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वा अनन्तक्लेशावह ' इत्यभिप्रायेणाचार्यैस्तत्रैव निराकृतः, तथाहि - "जह सावजा किरिया गथि य पडिमासु एवमियरावि । तयभावे णथि फलं अह होइ अहेग होइ" ॥ कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होन्ति पडिमा उ॥ जइवि य पडिमा उ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे ण य पडिमासूभयं अस्थि ।। णियमा जिणेसु उ गुणा पडिमाओदिस्स जे मणे कुणइ । अगुणे उ वियाणतो कं नमइ मणे गुणं काउं॥ जह वेडंबगलिंग जाणंतस्स णमओ हवइ दोसो। गिद्धंसमिय णाऊण वंदमाणे धुवं दोसो" ॥
आवश्यके गा० ११४५-४६, ४७, ४८, ४९. ) इति ॥ १०१ ॥ नन्वेवं स्थापनास्थले सावध कर्माभाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वमित्यागतम् , स्थाने " उत्कृष्टगुणाध्यारोपः शुभ" इति पाठो युक्तः, भावजिनगतो य उत्कृष्टगुणस्तस्य जिनप्रतिबिम्बे य आरोपः स शुभसङ्कल्परूपता- शुभसङ्कल्पात्मकताम् , आस्कन्दन् प्राप्नुवन् , निर्जराहेतुः कर्मक्षपणकारणं भवतीति शेषः । अन्यत्र तु
व्यलिने पार्थस्थादौ पुनः। असौ उत्कृष्टगुणाध्यारोपः । अशुभसङ्कल्परूपत्वेन अशुभसङ्कल्पात्मकत्वेन, इदमनन्तक्लेशावहत्वे हेतुः, तथा च द्रव्यलिङ्गिनि पार्श्वस्थादौ उत्कृष्टगणाध्यारोपोऽशुभसङ्कल्पात्मकत्वेनानन्तक्लेशावह इत्यर्थः, वा अथवा, पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहः । ननु पार्श्वस्थादावुत्कृष्ट गुणाध्यारोपो यदि विपर्यासलक्षणसमन्वयेनानन्त क्लेशावहस्तहि जिनप्रतिमायां द्वयोरपि निरवधक्रिया-सावधक्रिययोरभावे सति तत्रोत्कृष्टगणाध्यारोपोऽपि निरवद्यकर्माभाववजिनप्रतिमाविशेष्यकत्वाद् विपर्यासलक्षणसमनुगत इति सोऽप्यनन्तक्लेशावहः स्यादित्यत आह-निरवद्यकर्माभाववद्विशेष्यकत्वस्येति, गौरवेण सावद्यकर्मवद्विशेष्यकत्वापेक्षया गुरुभूतत्वेन, अतन्त्रत्वात् विपर्यासत्वेऽप्रयोजकत्वात् , तथा च पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य निरवद्यकर्माभाववद्विशेष्यकत्वेन यदि विपर्यासत्वं स्वीक्रियेत तदा निरवद्यकर्माभाववद्विशेष्यकत्वेन जिनप्रतिमायामप्युत्कृष्टगणाध्यारोपो विपर्यासः स्यात्, यदा तु निरवद्यकर्माभाववद्विशेष्यकत्वप्रयुकं विपर्यासत्वं पावस्थादावुत्कृष्टगुणाध्यारोपस्य नेष्यते कुतस्तद्बलाजिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य विपर्यासत्वं प्रसज्यत इति, तर्हि किं प्रयुक्त पावस्थादायुत्कृष्टगुणाध्यारोपो विपर्यास इत्यपेक्षायामाह- सावधकर्मः वद्विशेष्यकतयैवेति- सावद्यकर्मवान् पार्श्वस्थादिस्तद्विशेष्यकतयैवेत्यर्थः, जिनप्रतिमा च न सावद्यकर्मवती, अतस्तत्रोस्कृष्टगुणाध्यारोपस्य सावद्यकर्मवद्विशेष्यकत्वाभावान्न विपर्यासलक्षणसमन्वय इति न तेनानन्तक्लेशावहत्वं जिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य किन्तु सावद्यकर्मवद्विशेष्यकत्वेन पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहत्त्वमित्याशयः । इत्यभिप्रायेण उपदर्शितस्वरूपाभिप्रायेण । आचार्यः सूरिभिः । तत्रैव वन्दनकनियुक्तावेव ! निराकृतः अपहस्तितः पूर्वोपदर्शिताशङ्काशेषः । निरुक्ताशङ्काशेषनिराकृत्युपदर्शकं वन्दनकनियुक्तिगतगाथाकदम्बकमुपदर्शयति-तथाही. ति । जहा इति- “यथा सावद्या क्रिया नास्ति च प्रतिमासु एवमितराऽपि । तदभाचे नास्ति फलम् अध भवति अहे. तुकं भवति ।। काममुभयामावस्तथापि फलमस्ति मनोविशुद्धया । तस्याः पुनर्मनोविशुद्धेः कारणं भवन्ति प्रतिमास्तु ॥ यद्यपि च प्रतिमास्तु यथा मुनिगुणसङ्कल्पकारण लिङ्गम् । उभयमप्यस्ति लिने न च प्रतिमासूभयमस्ति । नियमाजिनेषु तु गुणा: प्रतिमा उद्दिश्य यो मनसि करोति । अगुणे तु विजानन् कं नमति मनसि गुणं कृत्वा ॥ यथा विडम्बकलिई जानतो नमतो भवति दोषः । निध्वंसमिति ज्ञात्वा वन्दमाने ध्रुवं दोषः ॥५॥ इति संस्कृतम् ॥ १० ॥
यधिकशततमपद्यमवतारयति-नन्वेवमिति । एवम् उक्सप्रकारेण । 'द्विशेष्य' इत्यस्य स्थाने 'द्विशेष्यक ' इति पाठो युक्तः। भावस्य सङ्कल्पविशेषरूपस्य । तच्च उक्तप्रकारेण निर्जरा हेतुत्वं च । अयुक्तत्वे हेतुमाह-लाघवेनेति-सावद्यकर्माभाववद्विशेष्यकत्वापेक्षया लाघवेनेत्यर्थः । तद्धेतुत्वौचित्यात् गुणसंकल्पस्य निर्जराहेतुत्वौचित्यात् । ननु विपर्यासलक्षणं सावद्यकर्म