________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
२८१
Prvvvhapter
-~-~
तीर्थकरे-अर्हतीति, इयं च प्रतिमा, तेषां- नमस्कुर्वताम् , इदमध्यात्म- समापत्त्यादिफलकानुभूयमान. तीर्थकरगुणस्मृत्यालम्बनम् , यद्वा तेषां- गुणानाम्, इदम् , अध्यात्मम् , अध्यारोपविषयः, तटस्थेन स्मृतौ योग(ग्य )जीवानुसमापत्त्यसिद्धेः । न च तासु प्रतिमासु सावद्या-सपापा क्रिया, इतरेषु- पार्श्वस्थादिषु ध्रुवा, सेति योज्यते, ततः समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् ध्रुवेति योगः, 'एवं सति प्रतिमा. यामुभयक्रियाभावप्रसञ्जितोभयफलाभावस्तदालम्बनकस्थाप्यगुणसङ्कल्परूपमनःशुद्धेर्बलवत्यैव निराक्रिय. माणः पार्श्वस्थादिवन्दनेऽपि मनःशुद्धेर्बलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ?' इत्याशङ्का शेषः । उभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वा उत्कृष्टगुणाध्यारोपशुभसङ्कल्प. तीर्थकरगुणा इत्यस्य तीर्थकरत्वेन प्रतीयमानस्य गुणा इति विवरणम् । तीर्थकरे इत्यस्य विवरणम्- अहंतीति । इयं च प्रतिमेति प्रक्रान्तत्वालभ्यते, तेषामित्यस्य विवरण- नमस्कुर्वतामिति । इदमध्यात्ममित्यस्य विवरण- समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनमिति- स्वात्मन्येव परात्मनः स्थापना-अहमेव परात्मैवं स्वरूपो बोधः, तदादिफलिका याऽनुभूयमानतीर्थकरगुणस्य स्मृतिस्तस्या आलम्बनमियं प्रतिमेत्यर्थः, तीर्थकरप्रतिमां नमस्कुर्वतां तटस्थानां समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनं नमस्कृतिक्रियाकर्माभूताऽहत्प्रतिमा भवति, यतोऽईत्प्रतिमादर्शनेन सिद्धान्तोक्तिजन्यशाब्दानुभवविषयस्य तीर्थकरगुणस्य स्मृतिरुपजायते, तया च भूयो भूयोऽभ्यस्यमानया समापत्यादि. फलं नमस्कुर्वतामवश्यमेव भवतीति । तेषामिदं वध्यात्ममित्यस्य व्याख्यानान्तरमुपदर्शयति-यद्वेति । तेषामित्यस्य विवरण-गुणानामिति । अध्यात्ममित्यस्य विवरणम् - अध्यारोपविषय इति-भावजिनगतगुणा जिनप्रतिमायामारोप्यन्ते, इयं प्रतिमा तीर्थकरगुणवतीत्यारोपाकारः । पूर्वोपदर्शितोऽर्थः कथं नेत्यपेक्षायामाह- तटस्थेनेति-- स्थाप्यस्थापकभिन्नेन जिनप्रतिमां नमस्कुर्वता पुरुषेणेत्यर्थः, स्मृतौ अनुभूयमानतीर्थकरगुणस्मृतौ, “ योग(ग्य )जीवानुसमापत्यसिद्धः" इत्यस्य स्थाने "योगजजीवात्मसमापत्यसिद्धेः" इति पाठो युक्तः, योगजा योगाभ्यासजनिता या योगिनो जीवस्य परात्मना सहकतालक्षणा समापत्तिस्तस्या असिद्धः, अतः प्रथमं व्याख्यानमुपेक्ष्येदं व्याख्यानमाइतमित्याशयः । उत्तरार्द्ध विवृणोति-न चेति- अस्य क्रिययाऽन्वयः । सावधेत्यस्य विवरणं-- सपापेति । इतरेधित्यस्य फलितार्थकथनं-पार्श्वस्थादिग्विति । ध्रुवा केत्यपेक्षायामाह-धुवा सेति योज्यते इति । ततः योजनातः । समनुना सपापक्रियानुमतिः, अस्य ध्रुवेत्यनेन योगमुल्लिखति-सावधति- सावंद्यक्रियायुक्तपार्श्वस्थादीनां प्रणाम कृते सति तद्वता सावधक्रियाप्यभिनन्दिता भवतीति सावधक्रियानुमतिस्तत्प्रणामकतुः, सा च सावधक्रियाफलिका ध्रुवेति द्रव्यलिखिरूपा भावसाधुस्थापना बलवदनिष्टानुबन्धावहेत्याशयः । एवं च सतीति- “एवं च सति' 'इत्याशङ्काशेषः, आचार्यस्तत्रैव निराकृतः' इत्येवमन्वयोऽत्र बोध्यः। एवं सति तीर्थकरप्रतिमासु सावद्या क्रिया नास्ति पार्श्वस्थादिषु सावद्या क्रिया विद्यते इति व्यवस्थितौ सत्याम् । प्रतिमायामितिप्रतिमायां सावद्या क्रिया नास्ति निरवद्याऽपि क्रिया नास्तीत्येवमुभयविधक्रियाऽभावतः प्रसजितो यः शुभफलस्याशुभफलस्य चाभाव इत्येवमुभयफलाभावः, अस्य 'निराक्रियमाणः' इत्यनेनान्वयः, तथा च स तदालम्बनकः- तीर्थकरप्रतिमालम्बनको यः स्थायगुणसंकल्प:- स्थाप्यस्य तीर्थकरस्य ये गुणास्तेषामारोपलक्षणः संकल्पस्तद्रपा तदात्मिका या मनःशुद्धिस्तस्या बलवत्तयैवअतिप्राबल्येनैव निराक्रियमाण:- प्रतिमालम्बनकस्थाप्यगुणसङ्कल्परूपमनश्शुद्धितः शुभफलस्यावश्यम्भावादशुभफलस्याभावेऽपि शुभफलस्य सद्भावेन फलद्वयाभावो न सम्भवतीत्येवं निराक्रियमाणः, अस्य 'प्रगल्भते' इत्यनेनान्वयः । पार्श्वस्थादिबन्दनेऽपीत्यपि नातीर्थकरप्रतिमावन्दनस्यामेडनम् । दोषाभावमिति- पार्श्वस्थादेः सपापक्रियत्वेऽपि तदन्दनकर्तुमनश्शुद्धिबलवत्तरेत्यतो दोषो न भवतीति दोषाभावमित्यर्थः, अस्य — साधयितुम् ' इत्यत्रान्वयः, 'गुणोदयं च' इत्यत्रापि ' मनःशुद्धबलवत्तयैव ' इत्यस्यान्वयः । इत्याशङ्काशेषः एवंस्वरूपोऽवशिष्ट आशङ्काभागः, अस्य 'निराकृतः' इत्यनेनान्वयः । उभयविकले एव सावधक्रियानिरवयक्रियोभयरहिते एव जिनप्रतिबिम्बे, आकारमात्रतुल्ये भावजिनेन सममाकारमात्रेप वा अथवा, कतिपयगुणान्विते भावजिनगता ये कतिपये गुणास्तैरन्विते युक्ते, “उस्कृष्टगुणाध्यारोपशुभ" इत्यस्य