________________
नयामृततरङ्गिणी-तरहिणीतरणिभ्यां समलङ्कतो नयोपदेशः। इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृते रुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्य गुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथास्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्"सन्ता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावजा किरिया इयरेसु धुवा समणुना ॥१॥"
[ आवश्यके गा० ११४४ ] इति गाथया, अस्यार्थ:-सन्तो- विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरा विपुलाम् ॥ १ ॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धथै ॥ २॥" इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः । सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण | अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रतिमातो यथाऽर्हतः स्मृतेरुदयस्तथा। द्रव्यलिङ्गिन इति-भावसाधुना समं द्रव्यलिशिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिजिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे । आचारि। त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः । उत्कटदोषवश्वेनोपस्थिते इति - द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कट दोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषा. नुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पावस्थगतभावसाधुस साधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समान संविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीर्गुणवतो भावसाधोर्द्रव्य लिङ्गिानि सादृश्यधीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम् , तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूप। गुगवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्वतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ दोषवचं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तन्तदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववाहिनीत्येवं भाव. साधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्ष. व्यक्षकत्वेन गुणवतोभावसाचोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानु. बन्धावहा, मुगवति भावसाधौ उत्कटदोषवतो द्रव्यलिसिनः सादृश्यधीरतस्तत्स्थापनायाः सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्वोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः। अन्यत्र वेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात्, न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलबदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूप, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्भाव समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्थयरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता० इति-"सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥१॥" हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदश्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् ।