________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [८६१], विभा गाथा H], भाष्यं [१५०...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
EKAR
प्रत
सूत्रांक
हणीय वस्तु प्रति आख्यानं-गुरुसाक्षिकनिवृत्तिकथनं ८, एते अष्टौ सामायिकपर्यायाः । अथ सामायिकपर्यायाणामभिधानं
किमर्थं १, उच्यते, असम्मोहप्रतिपत्त्यर्थम् , तथाहि-यथा चन्द्रः शशी निशाकरोरजनीकर उडुपतिरित्येवमादिषु चन्द्रपर्यायेषु आदित्यः सविता भास्करो दिनकर इत्येवमादिषु सूर्यपर्यायेष्यभिहितेषु चन्द्रसूर्यपर्यायाऽभिज्ञस्य सत एकस्मिन् शशिपर्याये केनाप्युक्त समस्तसूर्यपर्यायव्युदासेन चन्द्रपर्यायेषु यदिवा सूर्यपर्याये एकस्मिन् केनाप्युक्त समस्तचन्द्रपर्यायपरित्या-15 गेन समेषु सूर्यपर्यायेषु सम्प्रत्ययो भवति, नतु मुह्यति, एवं चतुर्णामपि सामायिकानां पृथक् पर्यायेष्वभिहितेषु तदभिज्ञस्य सत एकस्य सामायिकस्यैकस्मिन् पर्यायेऽमिहिते शेषसामायिकपर्यायव्युदासेन विवक्षितसामायिकपर्यायेषु सर्वेषु प्रत्ययो| भवति, न तु मोहं यातीति ॥ साम्प्रतं सर्वविरतिसामायिकपर्यायार्थानामष्टानामप्यनुष्ठातून यथासङ्ख्यमष्टाय दृष्टा-17 न्तभूतान् महात्मनः प्रतिपादयन्नाह
दमदंते १ मेअज्जे २ कालगपुच्छा ३ चिलाय ४ अत्तेअ५।।
धम्मरुइ ६इला ७ तेयलि ८ सामइए अट्टदाहरणा ॥ ८६५ ॥ सामायिके-सर्वविरतिसामायिकेऽष्टानामपि पर्यायार्थानां यथाक्रमममून्यष्टावुदाहरणानि, तद्यथा-सामायिकशब्दार्थानुष्ठाने दमदन्तो महर्षिः, समयिकशब्दार्थानुष्ठाने मेतार्यः, सम्यग्वादशब्दार्थानुष्ठाने कालकाचार्यपृच्छा, समासशब्दार्थानुछाने चिलातिसुतः, सोपशब्दार्थानुष्ठाने आत्रेयः, अयं चोपलक्षणं कपिलादीनां, अनवद्यशब्दार्थानुष्ठाने धर्मरुचिः,ाट
दीप अनुक्रम
925
आ.सू.८०
... सर्वविरति सामायिकस्य अष्ट पर्याय नामानि एवं प्रत्येक नाम्न: कथानक:
~71