________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०५६], विभा गाथा H, भाष्यं [१९०], मूलं [१] / गाथा -1 मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
नाम १ ठवणा २ दविए ३ ओहे४ भव ५तम्भवे ६य भोगे ७ य।
संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णई दसहा ॥१०५६॥ ___ तज्जीवितं दशधा भण्यते, तद्यथा-नामजीवितं स्थापनाजीवितं द्रव्यजीवितमोघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं संयमजीवितं यशोजीवितं कीर्तिजीवितं च, एष गाथासमासार्थः॥ व्यासार्थ तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनाहत्य शेषभेदव्याख्यानार्थमाह- . द दधे सच्चित्ताई आउयसदबया भवे ओहे।नेरइयाईण भवे तब्भव तत्थेव उप्पत्ती ॥ १९० ॥ (भा.)
द्रव्ये-द्रव्यविषयं जीवितं, द्रव्यजीवितमित्यर्थः, सचित्तादि सचित्तमचित्तं मिश्रं वा, इह कारणे कार्योपचारात् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद् द्रव्यजीवितमुच्यते, उक्त द्रव्यजीवितं, 'आउयसद्दबया भवे ओहे' ओघजीवितं-सामान्यजीवितं आयुस्सट्रव्यता-आयुःप्रदेशकर्म तस्य द्रव्यैः सह(वर्त)मानता आयुःसट्रव्यता, आयुःकर्मद्रव्यसहचारिता जीवस्येत्यर्थः, इदं च सामान्यजीवितं सकलसंसारिणामविशेषेण
सदा भावि, तत इदमङ्गीकृत्य यदि पर सिद्धा एव मृता, न पुनरन्ये केचन, उक्तमोघजीवितं, नैरयिकादीनां नैरयिकतियेहै नरामराणां भव इति स्वस्वभवे स्थितिर्भवजीवितं, उक्कं भवजीवितं,'तम्भव तत्थेव उववत्ती' तस्मिन् भवे भूयो जीवितं तद्भवजीवितं, किं तदित्याह-तत्रैवोत्पत्तिः तत्र-तस्मिन् अधिकृते तिर्यग्भवे मनुष्यभवे वा स्वकायस्थित्यनुसारेण भूयो भूय उत्पत्तिः, इदं चौदारिकशरीरिणामेवावसातव्यं, अन्यत्र निरन्तरं भूयो भूयस्तत्रैवोत्पत्त्यभावात् । उक्तं तद्भवजीवितं ॥
KAL
... अथ 'जीवित' शब्द व्याख्यायते
~281