________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२]
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५८० ॥
Jan Education
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [१०५६ ], वि० भा० गाथा [-] भाष्यं [१९१] मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
%%%
Gi
भोगम्मि चकिमाह संजमजीयं तु संजयजणस्स । जस किती य भगवओ संजमनरजी व अहिगारो ॥१९१॥ (भा.) 'भोगे' भोगजीवितं चक्रवर्त्यादीनाम्, आदिशब्दाद्वलदेववासुदेवादिपरिग्रहः, उक्तं भोगजीवितं, संयमजीवितं 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, यश कीर्त्तिः (श्च) भगवतो वर्द्धमानस्वामिनः, ततो यशोजीवितं कीर्त्तिजीवितं च भगवतः प्रतिपत्तव्यं, यशकीयश्चायं विशेषः, “दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः " अन्ये विदमेकमेवाभिदधति केवलं संयमप्रतिपक्षभावतो दशममसंयमजीवितमविरतिगतं प्रतिभणन्ति, 'संजमनरजीव अहिगारो'त्ति संयम जीवितेन नरभवजीवितेन चेहाधिकारः, 'यावज्जीवाएं' इत्यत्र यावज्जीवतयेत्यपि संस्कारः, तत्र यावत् जीवो- जीवनंप्राणधरणं यावज्जीवं, 'यावदवधारणे' इत्यव्ययीभावः समासः, यावज्जीवं भावो यावज्जीवता तया यावज्जीवता, तत्र प्राकृते तकारस्यालाक्षणिको लोप इति यावजीवाए इति सिद्धं, अथवा प्रत्याख्यानक्रिया अन्यपदार्थः, यावज्जीवो यस्यां सा यावज्जीया तथा यावज्जीवयेति कृतं प्रसङ्गेन । तथा तिस्रो विधा यस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म, कम्र्म्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधेन करणेन, अस्यैव विवरणमाह-मनसा वाचा कायेन तस्य च करणस्य कर्म्म प्रत्याख्येयो योगः, तमपि सूत्रेण एव विवृणोति, न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुंजानामि- नानुमन्ये । आह-किं पुनः कारणमुद्देशक्रममभिलक्ष्य व्यत्यासेन निर्देशः कृतः ?, उच्यते, योगस्य करणतन्त्रतोपदर्शनार्थ, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावाद् अभावे चाभावात्, करणानामेव तथाक्रियारूपेण प्रवृत्तेः, अपरस्त्वाह-न करोमि न कारयामि कुर्वन्तं न समनुजानामि इत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते,
For Private & Personal Use Only
282~
सामायिकसूत्रार्थः
॥ ५८० ॥