________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२]
श्रीभाव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५७९ ॥
Jam Educatio
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०५५] वि० भा० गाथा [-] भाष्यं [ १८९...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
तद्यथा- पूर्व श्रुतप्रत्याख्यानमपूर्वश्रुत प्रत्याख्यानं च तत्र पूर्वश्रुत प्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्व, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादि, तथा नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यत्, तच्च द्विधा 'मूले तह उत्तरगुणे य' मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्यानं द्विभेदं तद्यथा देशप्रत्याख्यानं सर्वप्रत्याख्यानं च, देश| प्रत्याख्यानं श्रावकाणां, सर्वप्रत्याख्यानं संयतानां सर्वप्रत्याख्यानेन चेहाधिकारः, सामायिकानन्तरं सर्व सावधं योगं प्रत्याख्यामीत्युपादानात्, इह वृद्धसम्प्रदायः - पश्ञ्चक्खाणे उदाहरणं, रायभूयाए पच्चक्खायं वरिसं जाव मंसं न खइयचं, पारणगे अणेगाणं जीवाणं घातो कतो, साहू विहरंता आगया, मंसं न पडिग्गहियं, तीए भणियं किं तुझं अज्जवि वरिसं न पुजइ ?, साहूहिं भणियं - जावजीवमहं मंसपञ्चक्खाणं, एत्थ धम्मकहा, सा संबुद्धा, पवइया, पुर्व दवपञ्चक्खाणं, पच्छा भावपच्चक्खाणं ॥ तदेवं व्याख्यातः प्रत्याख्यानमिति सूत्रावयवः, अधुना 'यावज्जीवये'ति व्याख्यायते, तत्रादी भावार्थमभिषित्सुराह-जावदवधारणम्मि जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ पावनिवत्ती इहं अत्थो । १०५५ ॥ यावदित्ययं शब्दोऽवधारणे वर्त्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण इति वचनात् ततो यावज्जीवया प्रत्याख्यामीति, कोऽर्थः ?-आ प्राणधारणात् प्राणधारणं यावत् पापनिवृत्तिरिति, परतस्तु न विधिर्नापि प्रतिषेधः, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गात्, इह च जीवनं जीव इति क्रियाशब्दो, न जीवतीति जीवः - आत्मा पदार्थः, जीवनं च प्राणधारणं, जीवनं जीवितं चेत्येकार्थ, तत्र जीवितं दशधा, तथा चाह
Por Private & Personal Use Only
280~
जीवितनिक्षेपाः
॥ ५७९ ॥