SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] Jan Educat आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ १०४२ ] वि० भा० गाथा [-] भाष्यं [ १८४ ], मूलं [१] / गाथा [-] दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः भवति भदन्त इति, 'भदुइ कल्याणे सुखे च' अस्मादौणादिकोऽन्तप्रत्ययः, औणादिकत्वादेव नमो लोपः, भदन्तःकल्याणः सुखश्चेत्यर्थः, प्राकृतत्वादामन्त्रणे 'भन्ते' इति भवति, अथवा प्राकृतशैल्या भवान्त इति द्रष्टव्यं तत्र भवस्य - संसारस्यान्तस्तेनाचार्येण क्रियते इति भवान्तकरत्वाद् भवान्तः, अथवा भयान्त इति द्रष्टव्यं तत्र भयं - त्रासः, तमाचार्य | प्राप्य भयस्यान्तो भवतीति भयांतभवनात् भयान्तो-गुरुः, यदिवा अन्तं करोतीत्यन्तकः भयस्यान्तको भयान्तकः तस्य सम्बोधनं, उभयत्रापि प्राकृतत्वात् भन्ते इति भवति, तत्र रचना - ( नामादि ) विन्यासलक्षणा भयस्य षड्भेदा-षट्पकारा, नामस्थापनाद्रव्यक्षेत्र कालभावभेदभिना, तत्र नामस्थापने सुगमे, द्रव्यक्षेत्रकालभयान्यपि प्रतीतानि द्रव्याद्भयं द्रव्यभयमित्येवं सर्वत्र पश्चमीतत्पुरुषसमाश्रयणात्, अन्यथा वा यथायोगं भावनीयं, भावभयं सप्तघा - इहलोकभयं परलोकभयं | आदानभयमाकस्मिकभयं आजीविकाभयं अश्लोकभयं मरणभयं चेति, तत्र यत् स्वभवात्प्राप्यते यथा मनुष्यस्य मनुष्यात् तिरश्चः तिर्यग्भ्य इत्यादि तदिहलोकभयं यत् परभवादेवाप्यते, यथा मनुष्यस्य तिरश्चः तिरवो मनुष्यात् तत्परलोकभयं, किशन द्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयं आदानभयं, यद् बाह्यनिमित्तमन्तरेणाहेतुकं भयमुपजायते तदकस्माद्भवतीत्याकस्मिकं, तथा 'श्लोकड श्लाघायां' श्लोकः प्रशंसा श्लाघा तद्विपर्ययोऽश्लोकः तस्माद्भयं अश्लोकभयं, आजीविका - आजीवनं तस्या उच्छेदेन भयमाजीविकाभयं प्राणपरित्यागभयं मरणभयं, एवं अनुक्रमेणोक्तलक्षणेन सर्वस्मिन् वर्णितेऽन्तेऽपि षड् भेदा वर्णयितव्याः, तद्यथा - नामान्तः स्थापनान्तो द्रव्यान्तः क्षेत्रान्तः कालान्तो भावा Por Private & Personal Use Only ~267~
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy