SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [१०४१] वि० भा० गाथा [-] भाष्यं [ १८३], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः | दृष्टिवादे-भूतवादे बोद्धव्योऽभिव्याहारः, एतदुक्तं भवति - शिष्यवचनानन्तरमाचार्यवचनमिदम् - उद्दिशामि सूत्रतोऽर्थतस्तदुभयतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः- शिष्यो प्रवीति - उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषे नये इति ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृत मूलगाथायामेव करणं कतिविधमित्येतत् द्वारं व्याचिख्यासुराह उद्देससमुद्देसो वायणमणुजाणणं च आयरिए । सीसंमि उद्दिसिजंतमाइ एअं तु जं कइहा ॥ १८३ ॥ (भा.) गुरुशिष्ययोः सामायिक क्रियाव्यापारणं करणं, तञ्चतुर्द्धा तद्यथा उद्देसकरणं समुद्देसकरणं वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्गभयादिह वाचनाकरणमेवमुपन्यस्तं यावता तस्वतः अमुना क्रमेण द्रष्टव्यं उद्देशो वाचना समुद्देशोऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिए'त्ति गुराविदं करणं, गुरुविषयमित्यर्थः, 'सीसंमि उद्दिसिज्वंतमादि' शिष्ये शिष्यविषयं उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणमनुज्ञायमानकरणं चेति, 'एयं तु जं कइहति एतदेव चतुर्विधं तत् यदुक्तं कतिविधमिति, आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव इह पुनः किमिति प्रश्नः १, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तं, इदं पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोक्तं, इह तु गुरुशिष्य क्रियाविशेषाद्विशेषितमिति न पुनरुक्तता, अथवा अयमेव करणस्यावसरः, पूर्वत्र पुनरनेकान्तद्योतनार्थं विन्यासः कृत इति 'विचित्रा सूत्रस्य कृतिरिति कृतं विस्तरेण ॥ द्वारम् || सम्प्रति कथमिति द्वारं विवरीपुराहू कह सामाइयलभो ? तस्सवविधाई देसवाघाई । देसविघाईफडग अनंतवुडीविसुद्धस्स ।। १०४१ ॥ Por Private & Personal Use Only ~265~
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy