________________
आगम
(४०)
प्रत सूत्रांक
[१]
दीप
अनुक्रम
[२]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०३२] वि० भा० गाथा [-] भाष्यं [ १७४...], मूलं [१] / गाथा [-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक” निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
पक्षे प्रतिपदि निशि ववकरणं, द्वितीयायां दिवसे वालवं, रात्रौ कौलवं तृतीयायाः दिवसे स्त्रीविलोचनं निशि गरादि चतु य दिवसे वणिजं निशि विष्टिरित्येवमादि स्वयं भावनीयं उक्तं च- "किहनिसि तइअदसमीसत्तमिचाउदसीसु अह विट्ठी । सुक्कच उत्थिकार सिनिसि अट्ठमि पुण्णिमाइ दिवा ॥ १ ॥ सुद्धस्स पडिवइनिसि पंचमिदिणि अट्टमीइ राइम्मि । दिवसस्स वारसी पुण्णिमाइ रतिं वयं होइ ॥ २ ॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीअ राइम्मि । इकारसीह उ दिवा बवकरणं होइ नाय || ३ ||" इत्यादि, अलं प्रसङ्गेन ॥ उक्तं कालकरणं, अधुना भावकरणमभिधीयते तत्र भावः पर्यायः, तस्य जीवाजीवोपाधिभेदत्वात् तत्करणमप्योघतो द्विविधमेव, तथा चाहजीवमजीवे भावे अजीवकरणं तु तत्थ वण्णाई। जीवकरणं तु दुविहं सुअकरणं नो अ सुअकरणं ॥ १०३२ ॥ इह अलाक्षणिको मकारः प्राकृतत्वात्, भावे-भावविषयं करणं द्विविधं तद्यथा-जीवे अजीवे च तत्रास्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति- अजीवकरणं तुशब्दस्य विशेषणार्थत्वात् अजीवभावकरणं परिगृह्यते, तत्र - तयोर्मध्ये वर्णादि, किमुक्तं भवति ? - यदिह परप्रयोगमन्तरेणावादेर्नानावर्णान्तरगमनं, आदिशब्दात् गन्धादिपरिग्रहः, एतत्सर्वमजीवभावकरणं, ननु च द्रव्यकरणमपि विश्रसाविषयमेवं प्रकारमेवोक्तं ततः कोऽत्र भावकरणे विशेषः ?, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते, तत्र तु द्रव्यप्राधान्यमित्यदोषः, जीवकरणं तु जीवभावकरणादि च जीवभावत्वात् द्विविधं श्रुतभावकरणं नोश्रुतभावकरणं च-गुणकरणादि, चशब्दस्य च व्यवहितः सम्बन्धः ॥ सम्प्रति जीवभावकरणेनाधिकार इति, तदेव यथोद्दिष्टं तथैव च भेदतः प्रतिपिपादयिषुराह
Por Private & Personal Use Only
~ 253~