________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९५४], वि०भा०गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
नियमो येन तदेव बहुस्थितिकमायुपः सकाशात् भवति !, न च जातुचिदपि आयुरिति, उच्यते, तथारूपजीवपरिणामस्वाभाच्यात्, तथाहि-इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादिसमं भवति न्यून वा, न कदाचनाप्यधिकं, यथा तस्यैवायुषः खल्वधुववन्धः, तथाहि-ज्ञानावरणादीनि कर्माण्यायुर्वजानि सप्तापि सर्वदेव बनाति, आयुस्त प्रतिनियत एव । काले स्वभवत्रिभागादिशेषरूपे, तत्रैव बन्धवैचित्र्यनियमे न स्वभावाद् यतः परः कश्चिदस्ति हेतुः, एवमिहापि स्वभावविशेष
एव नियामको द्रष्टव्यः, आह च भाष्यकृत्-"असमद्वितीण नियमो को थेवं आउयं न सेसंपि । परिणामसहावातो अद्धपायबंधो व तस्सेव ॥१॥ येषां पुनर्भगवतां वेदनीयादिकमायुषा सह स्वभावत एव समस्थितिकमुपजातं ते समुद्घातं न
प्रतिपद्यन्ते, तथा चाह भगवानार्यश्याम:-"अगंतूण समुग्घायमर्णता केवली जिणा । जाइमरणविप्पमुक्का, सिद्धिं वरगति गया ।। १॥" ननु प्रभूतस्थितिकस्य वेदनीयादेरायुपा सह समीकरणार्थ समुद्घातारम्भः, एतच्चायुक्तं, कृतनाशादिदोष
प्रसङ्गात् , तथाहि-प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्पादनात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि *कर्मक्षयस्य पुनर्विनाशसम्भवात् मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि-इह यथा प्रति-18। दिवसं सेतिकापरिभोग्येन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यतः स्तोकदिवसैनिःशेषतः परिभोगान्न कृतनाशोपगमः, तथा कर्मणोऽपि वेदनीयादेस्तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो भोगान्न कृत-2 नाशरूपदोषप्रसङ्गः, द्विविधो हि कर्मणोऽनुभवः-प्रदेशतो विपाकतश्च, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति | किश्चित्कर्म यत्प्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कुतः कृतनाशदोषापत्तिः ?, विपाकतस्तु किञ्चिन्न, अन्यथा
अनुक्रम
SMEnications
~1937