________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
श्रीआव श्यकमल
यगिरीय
वृत्तौ नमस्कारे
॥ ५३५ ॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९५४ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
टीकांदाविति ततः परिभावनीयम्, प्रदीपदृष्टान्तोऽध्यसिद्धो, यतः प्रदीपपुद्गला एवं भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण ॥ अथवा अन्यथा व्याख्यायते 'दीर्घकालरज' इति, रज इति रजः सूक्ष्मतया, स्नेहबन्धनयोग्यत्वाद्वा इत्यर्थः यद्धव्यकम्र्मेति च नैवं व्याख्यायते, साक्षात्कर्म्माभिधानेन सर्वनाम्नो निरर्थकत्वात् प्रकरणादेव भव्यस्याप्यवगम्यमानत्वात् अभव्यस्य सिद्धत्वायोगात्, ततो जन्तुकर्मेति व्याख्येयम्, जन्तुः - जीवस्तस्य कर्म्म, जन्तुग्रहणेनाबद्धकर्मव्यवच्छेदमाह, 'से' तस्य जन्तोरसितं - कृष्णमशुभं संसारानुबन्धित्वात् एवंविधस्यैव क्षयः श्रेयान् नतु शुभस्वरूपस्येति भावना, अष्टधा सितमित्यादि पूर्ववत्, प्रथमव्याख्यापक्षमधिकृत्याह तत्कर्म्म शेषं तस्य समस्थिति वा स्यादसमस्थिति वा ? न तावत् समस्थिति, विषमनिबन्धनत्वात् नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवात् एतदयुतम् उभयथाऽप्यदोषात्, तथाहि विषमनिबन्धनत्वेऽपि सति विचित्रः क्षयसम्भव इति कालतः समस्थितिकत्वाविरोधः, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयोच्यते, यत आह निर्युक्तिकृत् -
नाऊण बेयणिज्जं अइबहुगं आउगं च धोवागं । गंतॄण समुग्धायं खवेइ कम्मं निरवसेसं ॥ ९५४ ॥ ज्ञात्वा - केवलेनावगम्य वेदनीयं कर्म्म अतिबहु-शेषभवोपग्राहि कर्म्मापेक्षयाऽतिप्रभूतं, आयुष्कं च कम्मं तदपेक्षयैव स्तोकं, ज्ञात्येति वर्त्तते, अत्रान्तरे गत्वा वा प्राप्य 'समुद्घातं सम्यक् - अपुनर्भावेन उत्-प्राबल्येन घातः- कर्म्मणो वेदनीयादे हननं प्रलयो यत्र प्रयत्नविशेषे स समुद्घातस्तं गत्या क्षपयन्ति कर्म्म निरवशेषं निरवशेषमिव निरवशेषं प्रभूततमक्षपणात्, | शेपस्य चान्तर्मुहूर्त्तमात्रकालावधितया किंचिच्छेपत्वेन परमार्थतोऽसत्कल्पत्वात्, आह-ज्ञात्वा वेदनीयमतिवह्रित्यत्र को
••• अत्र समुद्घातस्य वर्णनं क्रियते
Por Private & Personal Use Only
~192~
समुद्घातः
॥ ५३५ ॥