________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम [3]
आ. सू. ९०
Jan Education
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९५३ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
तुशब्दो भव्यकर्म्मविशेषणार्थः, न खल्वभव्यकर्म्म सर्वथा ध्मायते, ततोऽयमर्थः - दीर्घकालरजो यत् भव्यकर्म तत् शेषितं - शे पीकृतं स्थित्यादिभिः प्रभूतं सत् स्थित्यनुभावसङ्ख्यापेक्षया अनाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्, अल्पं कृतमिति भावः, प्राकू किंभूतं सत् शेषितमित्यत आह- 'अष्टधा' ज्ञानावरणादिभेदेनाष्टप्रकारं सत् 'सितं' 'सित वर्णबन्धनयो 'रिति वचनात् 'पिज् बन्धने' इति वचनात् वा बद्धं कर्म्म ध्मावं 'धमा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन महाग्निना लोहमलवत् येन स सिद्धः, 'पृषोदरादय' इति इष्टरूपनिष्पत्तिः, एवं कर्म्मदहनानन्तरं सिद्धस्य सतः, किं ? - सिद्धत्वमुपजायते, नासिद्धस्य, निश्चयनयमेतत् उक्तं च- "पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासाधुः (नासन् कश्चित् ) प्रत्रजितो, भव्योऽसिद्धो न सिद्ध्यति ॥ १||” उपजायते इत्यपि तत्त्वतस्तदात्मनः स्वाभाविकमेव सद् अनादिकर्म्मावृतं तदावरणविगमेनाविर्भवति, तथापि लौकिकवाचोयुक्त्या व्यवहारदेशनया उपजायते इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते नतु प्रदीपनिर्वाणकल्पमभावरूपं तेन यदाहुरेके - "दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरि क्षम् । दिशं न काश्चित् विदिशं न काश्चित्, स्नेहक्षयात् केवलमेति नाशं ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चित् विदिशं न काञ्चित्, शक्षयात् केवलमेति शान्ति ॥ २ ॥' मिति तदपास्तं द्रष्टव्यम्, तथाविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यप्रसङ्गात्, न खलु कश्चनापि सचेतनः स्ववधाय कंठे कुठारं प्रक्षिपतीति परिभावनीयमेतत्, न च निरन्वयविनाशो युक्तिघटामुपैति, सतः सर्वथा विनाशायोगात्, असतः खरविपाणस्येवादलस्योत्पत्स्ययोगात् ' नासतो विद्यते भावो नाभावो विद्यते सत' इति वचनात्, विजृम्भितं चात्रार्थे धर्मसङ्ग्रहणि
Por Private & Personal Use Only
~191~