________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
श्रीआव श्यकमल
यगिरीय
वृत्तौ नम
स्कारे
॥ ४९३ ॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ ९०२ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
15
वस्थानं भजना, तथाहि जीव एवं नमस्कार इत्युत्तरपदावधारणं, अजीवात् व्यवच्छिद्य जीव एवं नमस्कार इत्यवधारणात्, जीवस्वनवधारितो नमस्कारो वा स्यादनमस्कारो वा, यथा द्रुम एव चूत इत्युक्ते द्रुमभूतोऽचूतो वा तत एतत्प्रत्यवस्थानमेकपदव्यभिचाराद्भजना, आह च-"जीवो नमो नमो वा नमो व नियमेण जीव इइ भयणा । जह चूतो होइ दुमो दुमो उ चूतो अचूतो वा ॥ १ ॥” एवं भजनायां कृतायां शिष्यः प्राह-यदि नाम न सर्वो जीवो नमस्कारः तर्हि स किंस्वरूपो जीवो नमस्कारः ? किंस्वरूपो वा अनमस्कारः ? इति पृच्छा, अत्र प्रतिव्याकरणं दापना, नमस्कारपर्यायपरिणतो जीवो नमस्कारो, नापरिणत इति, निर्यापणा त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव, नाजीवपरिणाम इति, अथ दापनानिर्यापनयोः कः प्रतिविशेषः ?, उच्यते-दापना प्रश्नार्थव्याख्यानं, निर्यापना तस्यैव निगमनम् ॥ अथवेयमन्या चतुर्विधा प्ररूपणा
नमुकresनमोकारो नोआइजुए व नवहा वा ॥ ९०२ ॥
इह चातुर्विध्यं प्ररूपणायाः प्रकृत्यकारनोकारोभयनिषेधसमाश्रयणात् प्रतिपत्तव्यम्, तत्र प्रकृतिर्नाम शुद्धतास्वभावो यथा नमस्कार इति, स एव नत्रा सम्बन्धादकारसम्भवेऽनमस्कारः, स एव नोशब्दोपादानात् नोनमस्कारः, उभयनिषेधातु नोअनमस्कारः, तत्र नमस्कार : अनमस्कार इति भङ्गकद्वयं साक्षादुपात्तं, 'नोआदिजुते' इति नोशब्देन आदिर्युक्तो ६ ॥ ४९३ ॥ यस्य नमस्कारस्य इतरस्य वा अनमस्कारस्य स नोआदियुक्तः, अनेन शेषौ द्वौ भङ्गावाक्षिप्तौ नोनमस्कारो नोअनमस्कार इति, तत्र नमस्कारो नाम नमस्कारपरिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यो वा नोनमकारो
Por Private & Personal Use Only
भागाल्पव
हृत्वे वस्तु पंचपदाच
108~
simeterary org