________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [९०३], विभा गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
| विवक्षया नमस्कारदेशोऽनमस्कारो वा, देशसर्वनिषेधपरत्वानोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, एपा चतुर्विधा प्ररूपणा । अर्थतेषु भङ्गेषु मध्ये को नया कान् भङ्गकानिच्छतीति निरूप्यते, तत्र शब्दादयस्त्रयः शब्दनयाः सम्पूर्णमेव प्रदेशरहितमखण्ड वस्त्वभ्युपगच्छन्तीति तन्मतेन द्वावेव भङ्गो-नमस्कारोऽनमस्कार इति, नैगमादयस्तु चत्वारो नया देशप्रदेशानपि वस्तुनोऽभ्युपगच्छन्तीति तन्मतापेक्षया चत्वारोऽपि भङ्गाः, तदेवं प्रागुक्ता पञ्चविधा प्ररूपणा इयं चतुर्विघेति सङ्कलने प्रकारान्तरेण नवविधा प्ररूपणा प्रतिपादिता द्रष्टव्या, गतं प्ररूपणाद्वारम् । इदानी वत्थु तऽरहंताई पंच भवे तेसिमो हेऊ' इति गाथाशकलोपन्यस्तं वस्तुद्वारमवसरप्राप्तं विस्तरतो व्याख्यायते, तच्चानन्त-12 रोक्कं गाथाशकलं मागेय व्याख्यातं, नवरं तत्र यदुक्तं 'तेपां वस्तुत्वे अयं हेतु' रिति स इदानीं हेतुरुच्यते, तत्रेयं गाथा-18
मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुकारं करेमि एएहिं हेऊहिं ॥ ९०३॥ ६] मार्गः अविप्रणाश आचारः विनयता सहायत्वं यथाक्रममहदादीनां नमस्काराहवे इमे हेतवः, तथा चाह-पञ्चविधनमस्कार
करोम्येतैर्हेतुभिरिति । इयमत्र भावना-अर्हतां नमस्काराईत्वे मार्गः सम्यग्दर्शनादिलक्षणो हेतुः, तथाहि-असी मागों भगवद्भिरेव प्रदर्शितः तस्माच मुक्तिपदावाप्तिः ततः परम्परया मुक्तिहेतुत्वान्नमस्कारास्तेि इति, सिद्धानां नमस्काराहेत्वेऽविप्रणाशा-शाश्वतत्वं हेतुः, यतस्तदविप्रणाशमवगम्य प्राणिनः संसारबैमुख्येन मोक्षाय घटन्ते, तथा आचार्याणां नमस्काराहत्वे आचारो हेतुः, तथाहि-तानाचारयत आचारख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठाननिमित्तं यतन्ते, उपाध्यायानां तु नमस्कारार्हत्ये बिनयो हेतुः, यतस्तान् स्वयं विनीतान प्राप्य कर्मविनयसामर्थ्यधिनयवन्तो भवन्ति देहिनः
HORRORRESEARCR
अनुक्रम
... नमस्कार-करणे हेतव:
~109~