________________
आगम
(०५)
प्रत
सूत्रांक
[८७]
दीप
अनुक्र [ १०९ ]
श्रीभगलघु चौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [२], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [८७] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
COACH
-
वकर्मा, अयं च सकुचतुर्गतिगमनतोऽपि स्यादतो 'नो वोच्छिन्नसंसारे 'त्ति अव्युच्छिन्नसंसृतिगमनः, अतो 'अबुच्छिन्न त्ति अव्युच्छिन्नसंसारवेद्यकर्मा अतो 'नो निडियडे' न निष्ठितप्रयोजनः, अतो 'नो निट्ठियहकर णिज्जे' त्ति नो-नैव निष्ठितार्थाना - मिव करणीयानि - कृत्यानि यस्य स तथा, 'पुणरवित्ति पुनरपि स साधुः- 'इच्चस्थति एतमर्थं चतुर्गतिगमनलक्षणं, तथाऽनुक्खारलोपश्च प्राकृतत्वात्, अनेन प्रकारेण इत्थतं इति, पाठान्तरे इत्थं तद्भाव इत्थत्वं मनुष्यादित्वं 'हवं' शीघ्रं 'आगच्छइ'त्ति आमोति, अभिधीयते च कषायोदयात् प्रपतितचरणमुनीनां भवभ्रमणं, यतः- “जइ उवसंतकसाओ, वहह अनंतं पुणोऽवि पडिवायंति, स च संसृतिसंश्रितो मुनिजीवः प्राणादिना नामषट्रेन काल भेदेन युगपच्च वाच्यः स्यादिति विभणिपुः प्रश्नयन्नाह'से 'ति (सू० ८८) सः साधुजीवः किंशब्दः प्रश्ने, वक्तव्यः स्यात्, प्राकृतत्वात् किमसौ वक्तव्यः स्यात् ?, अत्रोत्तरं 'पाणेत्ति वत्तव्यं'ति तत्र प्राण इत्येतत् तं प्रति वक्तव्यं स्यात् यदोच्छ्रासादिमत्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य साधोः कालभेदेन व्यारव्येया, यदा तूच्छ्वासादिधर्मैर्युगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सच्चो विज्ञो वेदयिता इत्येवं तं प्रति वाच्यं स्यात्, 'जम्हा जीवेत्ति यस्माजीवः - आत्माऽसौ जीवति प्राणान् धारयति, तथा जीवत्वमुपयोगलक्षणं आयुष्कं च कर्म उपजीवति - अनुभवति तस्माज्जीवः, 'सत्ते'ति सक्तः- आसक्तः, शक्तो वा समर्थः सुन्दरासुन्दरासु चेष्टासु तथा सक्तः सम्बद्धः शुभाशुभकर्मभिः ।। पूर्वोक्तार्थविपर्ययमाह - 'मडाई' त्यादि (सू०८९) 'पारगए' | पारं गतः संसाराब्धेः, 'परंपरगए' मिथ्यात्वादिगुणस्थानकानां मनुष्यादिसुमतीनां वा परम्परया - क्रमेण सिद्धिं गतः । संयताधिकारे स्कन्दकचरितं विवक्षुरिदमाह-'उप्पण्णनाणदंसणधरे' (सू० ९०) इह यावत्करणात 'अरहा जिणे केवली सब्वष्णू सब्वदरिसी
~94~
२ शतके
उद्देशः
॥४३॥