________________
आगम
(०५)
प्रत
सूत्रांक
[८१]
दीप
अनुक्रम [१०२]
श्रीभग
लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१०], मूलं [ ८१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
100000089
यदुक्तं 'कर्म सदा चीयते, अपचीयते चे 'ति तदप्येकान्तशाश्वतत्वे नोपपद्यत इति यथोक्तं 'भाषणात्पूर्वं भाषा, तद्धेतुत्वात् तदसङ्गतमेव, औपचारिकत्वात्, उपचारस्य तवतोऽवस्तुत्वात्, उपचारस्तान्त्रिके वस्तुनि सति भवतीति तान्त्रिकी भाषाऽस्तीति सिद्धं, यच्चोक्तं 'भाष्यमाणा अभाषा, वर्तमानसमयस्याव्यावहारिकत्वात् तदप्यसम्यक, वर्त्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वात्, | अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसच्वेन व्यवहारानङ्गत्वात् यच्चोक्तं- 'भाषासमयेत्यादि' तदप्यसाधु, भाग्यमाणाया भाषाया अभावे भाषासमय इत्यभिलापस्याभावप्रसङ्गात् यश्च प्रतिपाद्यस्याभिधेयप्रत्ययोत्पादकत्वादिति हेतुः सोऽनेकान्तिकः, करादिचेशनामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः, तथा यदुक्तम्- 'अभाषकस्य भाषेति, तदसङ्गतं, एवं हि सिद्धस्याचेतनस्य च भाषाप्राप्तिप्रसङ्ग इति, एवं क्रियाऽपि वर्त्तमानकाल एव युक्ता, तस्यैव सच्चादिति, यच्चानभ्यासादिकं कारणमुक्तं तच्चानेकान्तिकं, अनभ्यासादावपि यतः काचित् सुखादिरूपैव तथा यदुक्तं 'अकरणतः क्रिया दुःखेति, तदसम्यक्, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पूर्व पश्चाद्वा, तदसच्चात् तथा यदुक्तं 'अकिथमिति, यदृच्छावादिमताश्रयणात् तदप्यसाधीयः, यतो ययकरणादेव कर्म दुःखं सुखं वा स्यात् तदा विविधैहलौकिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात्, अभ्युपगतं च किंचित् पारलौकिकानुष्ठानं तैरपि चेत्येतत्सर्व अज्ञानविजृम्भितम् उक्तं च वृद्धैः " परतित्थियवत्तव्त्रय पदमसए दसमयमि उसे । विभंगीऽणादेसा मइभेया यावि सा सन्ना ||१|| सम्भूयमसन्भूयं भंगा चत्तारि हुति विभंगे। उम्मत्तवायसरिसं तो अन्नाणंति निदिडं ||२|| सद्भूते परमाणौ असद्भूतमर्द्धादि १ असद्भूते सर्वगात्मनि सद्भूतं चैतन्यं २ सद्भूते परमाणौ सद्भूतं निष्प्रदेशत्वं ३ असद्भूते सर्वगात्मनि असद्भूतमकर्तृत्वमिति ४ अहं पुणगोयम' ति प्रतीतार्थमेव, नवरं दोन्हं परमाणुपोग्गलाणं अस्थि सिणे
~89~
११ शतके
१० उद्दे.