________________
आगम
(०५)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम
[५]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) भाग-१
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [७४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
श्रीभग
ती
वाच्यानि, अज्ञानपदं त्विह ज्ञानविपक्षत्वादधीतं, अन्यथा प्रथमशतरोहाकृताण्डक कुर्कुटीप्रश्नषष्ठोदेश के 'दिट्ठीदंसणनाणे 'ति द्वितीयगाथायां ज्ञानपदमेव दृश्यते, 'हेडिल्ले'ति औदारिकादीनि गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात्, 'कम्मयं 'ति कार्मणं चतुर्थसूत्रम् -पदेन, अगुरुलघुद्रव्यात्मकत्वात् मनोवाग्योगौ चतुर्थपदेन वाच्या, काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुद्रव्यात्मकत्वात्, 'सव्वे दव्व'त्ति सर्वद्रव्याणि धर्मास्तिकायादीनि सर्वप्रदेशास्तेषामेव निर्विभागा अंशाः, सर्वपर्यवा वर्णोपयोगादयो द्रव्यधर्माः, एते पुद्गलास्तिकायवद्वाच्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याणि अगुरुलघूनि, इतराणि तु गुरुलघूनि प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्खभावा इति, गुरुलघुत्वाधिकारादिदमाह-'लाघवि' (०७५) अल्पोपधित्वं 'अपिच्छ 'त्ति आहारादिषु अल्पाभिध्यः 'अमुच्छ' त्ति उपधावसंरक्षणानुबन्धः 'अगेहि' त्ति भोजन करणादिषु नासक्तिः अप्रतिबद्धता स्वजनादिषु इति पदपञ्चकं, 'पसत्थं' ति प्रशस्तं साधूनां ज्ञेयं, 'कंवापओसे' त्ति काङ्क्षा - दर्शनान्तरग्रहः सैव प्रकृष्टो दोषः कांक्षाप्रदोषः काङ्क्षाप्रद्वेषौ वा रागद्वेषावित्यर्थः, 'अण्णउत्थियाणं ति ( सू० ७६) अन्ययूथं विवक्षितसङ्घादपरः सङ्घः, तदस्ति येषां ते अन्ययूथिकाः तीर्थान्तरीयाः एवमारव्यान्ति सामान्यतः, भाषन्ते विशेषतः, पन्नविंति - उपपत्तिभिः 'परूविं'त्ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेन आयुर्द्वयकरणे नास्ति विरोध इत्युक्तम्- 'एगे जीवे' इत्यादि, 'आहंसु' ति उक्तवन्तः, मिथ्यात्वं चास्यैवं - एकेनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् यतो जातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थ्यं स्यादिति, 'तेणं' ति ( ० ७७ ) पासाव चिज्जा' पार्श्वापत्यानां पार्श्वशिष्याणां अयं पार्श्वापत्यीयः 'थेरे' ति श्रीमहावीरशिष्याः, 'सामाइयंति समभावरूपं न जानन्ति, सूक्ष्मत्वात्, 'के भे'त्ति किं भवतामिति, 'आयाणे ति आत्मा नः
~84~
PICC
शतके
९ उद्देश:
||३८|