________________
आगम
(०५)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम [९५]
श्रीभग
बती
सूत्रम
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [७४] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
cccciCGIGILIGH
सब्बलहुं वा न विजए दब्वं । बबहारओ य जुअह चायरखंधेसु णऽण्णेसु ॥१॥ अगुरुलहू चउफासा अरूविदव्वा य होंति नायव्वा । सेसा उ अट्ठफासा गुरुलहुया णिच्छयणयस्स ॥२॥|” 'चउफास'त्ति सूक्ष्मपरिणामानि, 'अट्ठफास' त्ति बादराणि, गुरुलघु द्रव्यं रूपि, अगुरुलघुद्रव्य मरूपि रूपि वेति, व्यवहारतस्तु गुर्बादीनि चत्वार्यपि सन्ति, तत्र निदर्शनानि - गुरुर्लोष्टः अधोगमनात्, लघुर्भ्रमः ऊर्ध्वगमनात्, गुरुलघु आकाशं तत्स्वभावच्चात्, अवकाशान्तरादिसूत्राण्येतानि एतद्गाथानुसारेणावगन्तव्यानि, तद्यथा- 'ओवास बाय घणउदहि' ति ( सूत्रे ५४ गा.१७-१८) गाथाद्वयं सुगमं पूर्वोक्तव्याख्यानात्, 'बेडब्बियतेयाई पडुच'त्ति वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, यदाह - "ओरालिय वेउच्चिय आहारग तेय गुरुलघू दब्ब"ति । जीवं कार्मणशरीरं प्रतीत्य नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य कार्मणवर्गणात्मकत्वात् अगुरुलघुत्वं, आह च- 'कम्मगमणभासाई एयाई अगुरुलहुयाई'ति, 'नाणत्तं 'ति यस्य यानि शरीराणि तस्य तानि ज्ञात्वा असुरादिसूत्राणि वाच्यानि, असुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवः, जीवं कार्मणं च प्रतीत्यागुरुलघवः, वायवस्तु औदारिकर्वक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रिय तिर्यञ्चोऽपि मनुष्याश्चौदारिकवैक्रियाहारकतैजसानि प्रतीत्येति, 'धम्मस्थिकाए' इह यावत्करणाद् अहम्मत्थिकाए आगासत्थिकाए पदं यावत् चउत्थपरणं अगुरुलघवः, शेषाणां निषेधः कार्यः, धर्मास्तिकायादीनामरूपितया अगुरुलघुत्वादिति, समया अमूर्त्ताः कर्माणि च कार्मणवर्गणात्मकानि अगुरुलघूनि, 'दब्बलेसं'ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णा ओदारीकादिकं च गुरुलघु इतिकृत्वा एपापि गुरुलध्वी, भावलेश्या तु जीवपरिणतिस्तस्या अमूर्त्तत्वादगुरुलध्वीति । 'दिट्ठी दंसणणाण'ति 'दृष्ट्यादी' ति दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलघुत्वात् चतुर्थपदेन
~83~
१ शतके ९ उद्देशः