________________
आगम
(०५)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम
[३]
श्रीभग
बती
सूत्रम्
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) भाग - १
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [६२] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
030100
'जं से'त्ति, या तस्य गर्भस्य माता 'रसविगईड' त्ति रसरूपा विकृतीदुग्धाद्या रसविकारान् 'तदेगदेसेणं'ति तासां - रसवि कृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहायति, उच्च रो- विष्ठा, प्रश्रवणं-मूत्रं, खेलो - निष्ठीवनं, 'सिंघाणगं' ति नासिका श्लेष्म 'केसमंसु 'त्ति केशा:- कूर्चरूपाः रोमाणि - कक्षादिकेशाः, जीवेणं'ति गर्भगतो जीवः, प्रभुः- समर्थों मुखेन कावलिकमाहारमाहारयितुं ?, अत्रोत्तरम् -'नो तिणमडे' नायमर्थः समर्थः, 'सम्वओ'त्ति सर्वात्मना, 'अभिक्खणं' ति पुनः २ 'आहच'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् ततो मुखेन न प्रभुः समर्थः कावलिकमाहारमाहर्त्तुमिति भावः, अथ कथं सर्वत आहारयति इत्याह-रसो हियते आदीयते यया सा रसहरणी, नाभिर्नालमित्यर्थः, मातृजीवरसहरणी पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात् कथमित्याह-मातृजीवप्रतिवद्धा सती सा यतः पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् स्पृष्टता च सम्बन्धमात्रं अतदंशत्वात्, मातृजीवरसह ० पुत्रजीवरस० द्वे नाड्यौ स्तः, ततस्तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा, तस्मान्मातृजीवरसहरण्या प्रतिबद्धया पुत्रजीवस्पर्शनात् आहारयति, 'अवरावि'त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवतीति, तस्माचिनोति शरीरं, उक्तं च तंत्रान्तरे-“पुत्रस्य नाभौ मातुश्च हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥१॥” इति, 'मत्थुलुंगे' ति मस्तकभेजक, अन्येऽप्याहुः- मेदः, फिप्फसादि मस्तुलुङ्गमिति भावः, 'अडिमिंज' त्ति अस्थिमध्यावयवः, 'अम्मा पिऊणं ति अम्बापैतृकं शरीरावयवेषु शरीरोपचारात्, 'केवइयेति कियत्कालं गर्भे तिष्ठति, 'जावइयं'ति यावत्कालं 'से'त्ति तस्य जीवस्य भवधारणीयं- भवधारणप्रयोजनं, मनुष्यादिभवोपग्राहकमिति, 'अव्वावण्णे'त्ति अव्यापन्नं-अविनष्टं, 'अहे णं'ति उपचयान्तिमसमयादनन्तरमेतत्, अम्बापैतृकं शरीरं
~77~
G.........
शतके ७ उद्देशः