________________
आगम
(०५)
प्रत
सूत्राक
[५८-५९]
दीप
अनुक्रम [७७-८०]
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [५८-५९ ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
श्रीभगवावयवेन सर्वतः सर्वात्मना नारकावयवितयोत्पद्यत इति, 'सब्वेणं देसं' ति सर्वेण सर्वात्मना सर्वतो देशतो-नारकांशतया वा, 'सव्वेणं सव्वं'ति सर्वेण सर्वात्मना सर्वतो नारकतयेति प्रश्नः, अत्रोत्तरं न देशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निर्वर्त्यते तन्तुना पटाप्रतिबद्धपटप्रदेशवत् यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न क्रियते तथा पूर्वावयविप्रतिबद्धेन तद्देशेन उत्तरावयविदेशो न निर्वर्त्त्यत इति १ तथा न देशेन सर्वतया, अपरिपूर्णकारणत्वात् तन्तुना पट इवेति २, न सर्वेण | देशतया सम्पूर्णपरिणामिकारणत्वात् समग्रघटकारणैर्घटैकदेशवत् ३, सर्वेण सर्वतयोत्पद्यते, पूर्णकारणसमवायात् घटवदिति ४, आहारसूत्रे ऽप्येवं चतुर्भङ्गी, 'सव्वेणं देस'ति ३, उत्पन्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्रिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिका घृततैलग्राहक विमोचकापूपवदिति देशमाहारयति, सर्वेण सर्वमिति ४, सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्त एव, | प्रथमतस्तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदिति, सर्वमाहारयति, यथा उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यां उक्तः, अ (त)| थोत्पादप्रतिपक्षत्वादुद्वर्त्तनादण्ड कस्तदाहारदण्डकेन सह वाच्यः, नोद्वर्त्तना अनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकौ च त (तत उद्वर्त्तनाऽऽहारदण्डकौ वाच्यादिति, एवं तावदष्टामिर्दण्डकैर्देशसर्वाभ्यां उत्पादादि चिन्तितम्, अथाष्टाभिरेवार्द्ध सर्वाभ्यामुत्पादादि चिन्त्यते, 'णेरइएत्ति जहा पढमिल्लेणं'ति, यथा देशेन तथाऽर्द्धनापि, ननु देशस्यार्द्धस्य च को विशेषः १, उच्यते, देशस्त्रिभागादिरनेकथा अर्द्ध त्वेकधा एवेति । उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका स्यात् इति गतिसूत्राणि 'विग्गहगई 'त्ति ( ० ६०) विग्रहो ! वक्रं तत्प्रधाना गतिर्विग्रहगतिः तद्विपक्ष ऋजुगतिकः, तत्र जीवानां आनन्त्यात् प्रतिसमयं विग्रहगतिमतां तद्विपक्षणाणां च बहूनां भावाद् द्वयोरपि बहुत्वं नारकाणामल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि च एकादीनामपि तेषां भावात् तद्विप
बती
सूत्रम्
~75~
१ शतके
७ उद्देशः