SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ५५ ] गाथा: दीप अनुक्रम [७३-७६] श्रीभग वती सूत्रम “भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ५५ ] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः जीवैः सङ्गृहीतत्वात्, अथ जीवप्रतिष्ठितास्तथा अजीवा जीवसङ्गृहीता इत्येतयोः को भेदः १, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु सङ्ग्राह्यग्राहकभाव इति भेदः, यच्च यस्य सङ्ग्राह्यं तत्तस्याधेयमिति अर्थापत्तिः स्यात् यथा अपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति ७, 'जीवा कम्म'त्ति जीवाः कर्मसङ्गृहीताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्त्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमत्राप्याधाराधेयता दृश्या 'से जहानामए'त्ति, (सू० ५६) स यथानामकः कश्चित्पुरुषो बस्ति इतिं, 'आडोवे' त्ति आटोपयेत् — वायुना पूरयेत्, 'उष्पिं सियं'ति उपरिसितं 'पि बन्धने' इति धातोः के प्रत्यये चार्षत्वात् सितं बन्धं ग्रन्थिं बनाति करोतीति ' से आउयाए 'ति सः अप्कायः, 'तस्स वाउकायस्स'ति तस्य वायुकायस्य च ' उप्पिं'ति उपरितले सर्वोपरि तिष्ठति, 'हन्ते'त्युत्तरं यथा वायुराधारो जलस्य एवमाधाराधेयभाव आकाशघनवातादीनामिति भावः, 'अथाई' ति अस्ताघं- अगाधमिति, अस्ताघो वा निरस्ताधस्तलमिवेति, 'अतरं 'ति तरीतुमशक्यं 'अपोरिसं'ति न विद्यते पुरुषः प्रमाणमस्येति अपौरुषेयं 'पोग्गले' त्ति कर्मशरीरादिपुद्गलाः 'अण्णमण्णबद्ध'त्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गला जीवानां च सम्बद्धा इति, 'अण्णमण्णपुड' त्ति पूर्वं स्पर्शनामात्रेण अन्योऽन्यं स्पृष्टा| स्ततोऽन्योऽन्यं गाढतरसम्बद्धा इति 'अण्णमण्ण मोगाढ' त्ति परस्परेण लोलीभावं गताः, स्नेहप्रतिबद्धा इति, अत्र रागादिरूपः | स्नेहः, 'अण्णमण्णघड' त्ति अन्योऽन्यं घटा समुदायो येषां ते अन्योऽन्यघटाः तद्भावस्तत्ता तया अन्योऽन्यघटतया 'हरए'ति हृदो - नदः स्याद्-भवेत्, 'पुण्णे'त्ति पूर्णो भृतः, 'पुण्णप्पमाणे त्ति पूर्णप्रमाणः, तथा (यद्वा) पूर्ण जलेनात्मनो मानं यस्येति पूर्णात्ममानः 'बोलहमाणे' त्ति व्यपलोट्यन् अतिजलभरणात् छर्द्यमानजल इति, 'बोस' त्ति जलप्राचुर्यादेव कसन्- स्फारीभवन् ~73~ DH DOD शतके ६ उद्देशः
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy