________________
आगम
(०५)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [४५]
श्रीभग
बती
सूत्रम्
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [३८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
चरमजिनैरचेलत्वं शुभ्रवस्त्रत्वं चोक्तमिति शङ्का, अत्र समाधिः ऋजुजडवक्रजडऋजुप्राज्ञ शिष्यानाश्रित्य भगवदुपदेशः, प्रवचनं१ शतके -आगमस्तत्र शङ्का-मध्यमजिनैश्चतुर्यामो धर्मः प्रथमान्तिमजिनैथ पंचयामः प्रोक्त इति, अत्र समाधिः सुगमः, 'पावयणं' ति प्रवचनमधीते वेत्ति वेति प्रावचनिकः, तत्रैक एवं कुर्यादन्यस्त्वेवमिति किमत्र तच्वमिति शङ्का, समाधिश्रात्र- मोहनीयक्षयोपशमविशे- १३ उद्देशः पेणोत्सर्गापवादव्यवहारनिश्चयादिविविधत्वेन प्रावचनिकानां विचित्रा प्रवृत्तिरिति, 'कप्पं'ति, कल्पो द्विधा - जिनकल्पः स्थविर कल्पश्च तत्र प्रथमो नाश्यादिमहाकष्टरूपः, इतरो वस्त्रपात्रादिपरिभोगरूपः, ततो द्वावेतौ कथं कर्मक्षयाय ?, अत्रोत्तरम् - अवस्थाभेदेन जिनोक्तत्वात् द्वावपि कर्म्मक्षयकरौ, 'मग्ग'ति मार्ग:- पूर्वपुरुषसामाचारीरूपः, स च केषांचिदनेकविधकायोत्सर्गकरणाद्यावश्यकसामाचारीरूपः, तदन्येषां तु न तथेति शङ्का, अत्रोत्तरम् - गीतार्थाशठप्ररूपिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, उक्तं च- "असढाइणतणवञ्ज, गीयत्थअवारियंति मज्झत्था। आयरणाऽचि हु आणत्ति वयणओ सुबहु मन्नंति || १||" इति, 'मत'ति आचार्याणामागमेऽसमानोऽभिप्रायः, कथं ?, सिद्धसेनः केवलिनो युगपज्ज्ञानं दर्शनं च, जिनभद्रगणिस्तु भिन्नसमये तौ द्वावपि केवलिनो मन्यते, जीवस्वरूपत्वात् यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगौ न च एकतरोपयोग इतरक्षयोपशमाभाव इति वाच्यं तत्क्षयोपशम उत्कृष्टतः षट्षष्टिसागराणि, कथं ?, “दोवारे विजयाइसु गयस्स”त्ति वचनात् इति शङ्का, इहैवं समाधिः- “जुगवं दो नत्थि उपओगा,' तच्च जिनप्रणीतमेव, आह च- 'अणुवकयपराणुग्गह० 'त्ति, 'भंग'ति भङ्गाध्यादिसंयोगभङ्गकाः, तत्र द्रव्यतो नामैका हिंसा न भावत इत्यादि चतुर्भङ्गी उक्ता, तत्र प्रथमोऽत्र भङ्गो न युज्यते, यतः किल द्रव्यतो हिंसा ईयसमत्या गच्छतः साधोः पिपीलिकादिव्यापादनं, नेयं हिंसा, तलक्षणायोगात्, तथोक्तं च- "जो उ पमत्तो पुरिसो
*** अत्र ज्ञान-दर्शन उपयोग संबंधे भिन्न-भिन्न वे मत विषयक चर्चा
~51~