________________
आगम
(०५)
“भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [१], वर्ग , अंतर्-शतक H, उद्देशक R], मूलं [२१-२२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१-२२]
श्रीभग
शतके
सूत्रम्
२ उद्देशः
गाथा
भावना चैवं-पृथ्वीकायिकानामंगुलासंख्येयभागमात्रशरीरत्वेऽप्यल्पवपुस्त्वमितरचेतः प्रज्ञापनादवसेयं, यतः 'पुढविकाइए पुढविकाइयस्स ओगाहणट्ठयाए चउहाणवडिए'त्ति, ते च महाशरीरा लोमाहारतो बहुतरान पुद्गलानाहारयन्ति, उच्छुसन्ति अभीक्ष्णं महा- शरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वासत्वमल्पशरीरत्वादेव, कादाचित्कं तयोः पर्याप्तकेतरावस्थापेक्षमवसेय, तथा कर्मादिसत्रेषु पूर्वपश्चादुत्पन्नानां पृथ्वीकायिकानां कर्मवर्णलेश्याविभागो नारकवद्वाच्यः, वेदनाक्रिययोस्तु नानात्वमित्याह-पुढविकाइयाणं सव्वे समवेयणत्ति, 'असपिण'त्ति असंज्ञिनो मिथ्यादृष्टयोऽमनस्का वा 'असण्णिभूय'ति असंज्ञिभूतां, असंज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति-'अणिदाए'त्ति अनिर्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वीपाचाशुभकर्मपरिणतिरि-| यमिति मिध्यादृष्टित्वादवगच्छन्ति, अमनस्कत्वाद्वा मत्तमातादिवदिति भावना, 'माईमिच्छत्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सदसीलो य ससल्लो तिरियाउं बंधए जीवो ॥१॥" ततस्ते मायिन उच्यन्ते, अथवा इह माया अनन्तानुबन्धिकषायोपलक्षणमतोऽनन्तानुवन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयबतिन इति, ताणं णियइयाओं'त्ति तेषां-पृथ्वीकायिकानां नियताः पञ्चैव, नतु त्रिप्रभृतयः इति निगमनं, 'जाव चउरिंदिय'त्ति इह महाशरीरत्वमितरच स्वस्वावगाहनानुसारेणावसेय, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहाणेरइत्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्त्युच्सन्ति चेति यदुच्यते तत् संख्यातवर्षायुषोऽपेक्ष्य, नासंख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य पष्ठस्योपरि प्रतिपादितत्वात् , अल्पवपुषां यत् कादाचित्कं तदपर्याप्तकत्वे लोमाहारोच्वासयोरभवनेन | पर्याप्तकत्वे च तद्भावेन ज्ञेयमिति,तथा कर्मसूत्रे यत् पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां महाकर्मत्वं च (तत्) तद्भववेद्यायुष्कादिकर्मापेक्षया,
दीप अनुक्रम [२८-३०]
~37~