________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप
अनुक्रम
[३२७
३८०]
श्रीभगः
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
व्यवच्छित्तिनयार्थस्तद्भावस्तत्ता तया अव्यवच्छित्तिनयार्थतया, द्रव्यमाश्रित्य शाश्वता इति, 'वोच्छित्तिनय'त्ति व्यवच्छित्तिप्रधांनो यो नयस्तस्यार्थो यः पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया पर्यायानाश्रित्याशाश्वता नारका इति ॥ सप्तम| शते तृतीय उद्देशकः ॥
'एते जहा जीवाभिगमे ति ( स. २८१ ) एवं च तत्सूत्रं पुढविकाइया जाय तसकाइया, से किं तं पुढविकाइया ?, पुढविकाइया दुबिहा पण्णत्ता, तं०- सुहुमपुढविकाइया बादरपुढविका० ' इत्यादि, अंतः पुनरस्य एवं 'एगे जीवे एगेणं समएणं एवं किरियं पकरेह, तंजहा सम्मत्तकिरियं मिच्छत्तकिरियं वा' अत एवोक्तम्- 'जाब कम्मत्तेत्यादि, वाचनान्तरे त्विदं दृश्यते-जीवा छब्बिह पुढवी जीवाणं ठिइ भवठिई काए । निल्लेवण अणगारो किरिया सम्मत्तमिच्छत्ते ||५|| त्यादि, तत्र च पद्विधा जीवा दर्शिता एव, 'पुढवि'त्ति पद्विधा बादरपृथ्वी लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथ्वी ६ भेदात् एषामेव पृथ्वीभेदजीवानां स्थितिरन्तर्मुहुर्त्तिका जघन्या यथायोगं द्वाविंशतिसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता तथा कार्यस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्यादिका, तथा निर्लेपना वाच्या, सा चैवम् - प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याताभिरुत्सर्पिण्यव सर्पिणीमिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगार'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्ध| लेश्योऽनगारः असमवहतेनात्मना अविशुद्धलेश्यं देवं देवीमनगारं च जानाति, नायमर्थः ' इत्यादि किरिया सम्मत्तमिच्छत्ते 'ति एवं | दृश्यम् - अन्ययूथिका एवमाख्यान्ति - एको जीव एकेन समयेन द्वे क्रिये कुर्यात् सम्यक्त्वक्रियां च मिध्यात्वक्रियां चेति, मिथ्या
अत्र शतक-७ उद्देशकः ३ समाप्तः, अथ शतक-७ उद्देशक: ४ आरभ्यते
~219~
७ शतके
४ उद्देशः