________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप
अनुक्रम
[३२७
३८०]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
U JE JOJOC JOCCLU
एवमिह त्रीण्यपि वाच्यानि, विशेषमाह - 'नवरं' इत्यादि, पंचिदिया तिरिक्खजोणिया मणुस्सा य एवं चेव त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्यादय उक्ताः एवं पञ्चेन्द्रियतिर्यश्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनः स्युरित्येवमवसेयं, देशविरतानां लेशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति । मूलगुणप्रत्याख्यानिप्रभृतयश्व संयतादयः स्युरिति संयतादिसूत्रं 'तिन्निवि'त्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवेत्यादि, एवं अनेनैवाभिलापेन यथैव प्रज्ञापनायां तथैव सूत्रमिदमध्येयं तच्चैत्रम् - नेरइया णं भंते! किं संजया १ असंजया २ संजया संजया ३१, गो०! नो संजया असंजया नो संजयासंजया' इत्यादि, 'अप्पेत्यादि, अल्पबहुत्वं संयतानां तथैव यथा प्रज्ञापनोक्तं, 'तिष्णिवि'त्ति जीवानां पश्चेन्द्रियतिरक्षां मनुष्याणां च तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असख्येयगुणाः, असंयता अनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताः, असंयता असङ्ख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संयतासंयताः सङ्ख्येयगुणाः, असंयता असख्येयगुणा इति । संयतादयस्तु प्रत्याख्यानादिमध्ये सति स्युरिति प्रत्याख्यानादिसूत्रं, ननु पष्ठशते चतुर्थोद्देश के प्रत्याख्यानादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत् किन्त्वल्पबहुत्वचिन्तार हितास्तत्र प्ररूपिताः, इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति । जीवाधिकारात्तच्छाश्वतश्चसूत्राणि - 'दव्वट्टयाए 'ति जीवद्रव्यत्वेनेत्यर्थः, 'भावडयाए' ति नारकादिपर्यायत्वेनेति ॥ सप्तमशते द्वितीयोद्देशक विवरणम् ॥
'पाउसे 'ति (सू. २७४ ) प्रावृडादौ बहुत्वाजलस्नेहस्य महाहारतोक्ता, प्रावृट् च श्रावणादि वर्षारात्रोऽश्वयुजादिः 'सरदे' चि शरद् मार्गशीर्षादिः, तत्र चाल्पाहाराः स्युरिति, ग्रीष्मे सर्वाल्पाहारतोक्तेः, अत एव शेषे स्वल्पाहारता क्रमेण ज्ञेया, 'हरियगरे
अत्र शतक-७ उद्देशकः २ समाप्तः अथ शतक-७ उद्देशक: ३ आरभ्यते
~ 217~
• शतके २ उद्देशः