SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४० २४३] गाथा: दीप अनुक्रम [२९१ २९९] श्रीभग० लघुवृत्ती “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१ शतक [६], वर्ग [-] अंतर-शतक [-] उद्देशक [५] मूलं [ २४०-२४३] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः च्छब्द ऐदंपर्यार्थः, 'इणामेव २' इदं गमनमेवेति शीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरं, अनुखाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं शीघ्रत्वातिशयोपदर्शनपरं 'इतिकट्टु' इतिः - उपदर्शनार्थः कृत्वा - विधाय 'केवलकप्पं ति केवलज्ञानकल्पं, परिपूर्णमित्यर्थः, वृद्धव्याख्याने तु केवलः सम्पूर्णः, कल्पते इति कल्पः - स्वकार्यकरणसमर्थो वस्तुरूप इतियावत् केवलश्चासौ कल्पचेति केवलकल्पः तं, 'तिहिं अच्छराहिं' ति तिसृभिश्रप्पुटिकाभिरित्यर्थः, 'तिसत्त' त्ति त्रिगुणाः सप्त त्रिसप्त, त्रिसप्त वारान् त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'हब्वं'ति शीघ्रं, 'अत्थेगइय'त्ति सङ्ख्यातयोजनमानं व्यतिव्रजेद् इतरं तु नेति, 'उरालत्ति महान्तो मेघाः 'संसेयंति' संविद्यन्ति, तजनकपुद्गलस्नेहसम्पन्या सम्मूर्च्छन्ति, पुद्गलमीलनात् तदाकारतयोत्पत्तेः, 'तं भंते 'ति तत्संवेदनं सम्मूर्द्धनं वर्षणं च 'बायरे'त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निपेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भाखराः पुद्गलास्ते इति, 'नन्नत्थ विग्गहगह'त्ति न इति योऽयं बादरपृथ्वी तेजसोर्निषेधः सोऽन्यत्र विग्रहगतिसमापन्नान् विग्रहगत्यैव बादरे ते तत्र भवतः, पृथ्वी हि वादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु च तेजस्तु मनुष्यक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वात्, 'पलियस्स'ति परिपार्श्वतः पुनस्संति तमस्कायस्य चन्द्रादय इति 'कादूसणिया पुण'त्ति, ननु तत्पार्श्वतचन्द्रादीनां सद्भावात् तत्प्रभाऽपि तत्रास्ति, सत्यं केवलं कं- आत्मानं दूषयति तमस्कायप|रिणामेन परिणमनात् कदूषणा सैव कदूपणिका, दीर्घता च प्राकृतत्वात्, 'कालो भास'त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासते अत आह— कालावभासः, कालदीप्तिर्वा, 'गंभीरलोम'त्ति गम्भीरवासौ भीषणत्वात् रोमहर्षजननश्चेति गम्भीर महर्षजननः भीष्मः, 'उत्तासण'त्ति उपासनकं उत्कम्पहेतुः 'तप्पढम' त्ति दर्शनप्रथमतायां 'खोभाए 'त्ति स्कनीयात् क्षुभ्येत्, ~195~ PSYCHICAGO C शतके उद्देशः
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy