SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४० २४३] गाथा: दीप अनुक्रम [२९१ २९९] श्रीभग लघुवृत्तौ “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [५], मूलं [ २४०-२४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः CDICIG CHICCO 'तमुकाए 'त्ति (सू. २४०) तमसां - तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः, स च नियत एवेह स्कन्धः कचिद्विवक्षितः, स च तादृशः पृथ्वीरजः स्कन्धो वा उदकरजःस्कन्धो वा, नत्वन्यः, तदन्यस्यातादृशत्वादिति पृथ्व्यविषयसन्देहादाह - 'किं पुढवी'ति व्यक्तं, 'पुढविकाइए णं' पृथ्वीकायिकोऽस्त्येककः, 'सुभे'त्ति कश्चिच्छुभो - भाखरः 'देसं 'ति देशं विवक्षितक्षेत्रस्य प्रकाशयति, भास्वरत्वात् मण्यादिवत्, तथाऽस्त्येककः पृथ्वीकायो देशं पृथ्वीकायान्तरं प्रकाश्यमपि न प्रकाशयति, अभास्वरत्वादिति, नैवं पुनरपुकायः, तस्य सर्वस्याप्यप्रकाशकत्वात् ततश्च तमस्कायस्यैव सर्वथाऽप्रकाशत्वादपूकायपरिणामतैव, 'एगपएसियाए'त्ति एक एव न द्वयादयः औत्तराधर्यं प्रति प्रदेशो यस्यां सा तथा तया सममित्तितयेर्थः, न च वाच्यमेकप्रदेशप्र| माणतयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात् तमस्कायस्य च स्तिबुकाकाराकायिकजीवात्मकत्वात् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'एत्थ णं'ति प्रज्ञापकालेख्य लिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तवान्, 'अहे 'त्ति अधस्तात् मल्लकमूलसंस्थितः - शरावबुध्नसंस्थानः समजलस्योपरि सप्तदशयोजनशतान्येकविंशत्यधिकानि यावद्वलपसंस्थितत्वात्, स्थापना चेयम् [] 'केवइयं विक्वं भेणं' ति, विस्तारेण, क्वचिद् 'आयामविक्खंभेणं'ति दृश्यते, तत्रायाम उच्चत्वमिति, 'संखिज'त्ति सङ्ख्यातयोजनविस्तृतः, आदित आरभ्य ऊर्ध्व सख्येययोजनानि यावत्, ततोऽख्यातयोजनविस्तृतः, उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असं खिजाई' ति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्थासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात् परिक्षेपस्यासङ्ख्यातयोजन सहस्रप्रमाणत्वं, आन्तरवहिः परिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति, 'देवे 'ति अथ किमदंपर्यमिदं महद्धर्ज्यादिविशेषणं देवस्य ?, जाव इणामेव' त्ति इह याव अथ शतक-६ उद्देशक: ५ आरब्ध: ~194~ ६ शतके ५ उद्देशः ॥९३॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy