________________
आगम
(०५)
प्रत
सूत्रांक
[२३२
२३७]
दीप
अनुक्रम
[ २८०
२८५]
श्रीभग० लघुवृचौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [३], मूलं [ २३२-२३७] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
बन्धकत्वात्, 'अजोगी ण बंधइत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति । उपयोगद्वारे 'अडसुवि भयणाए'त्ति साकारानाकारानुपयोगी सयोगानामयोगानां च स्यातां तत्र सयोगा ज्ञानावरणादिप्रकृतीर्यथायोगं बध्नन्ति अयोगास्तु नेति भजना । आहारकद्वारे 'दोऽवि भयणाए'त्ति आहारको वीतरागोऽपि स्वात् न चासौ ज्ञानावरणं बनाति, सरागस्तु बध्नाति इति भजनया आहारको बनाति, तथा अनाहारकः केवली विग्रहगत्यापनश्च स्यात्, तत्र केवली न बध्नाति, इतरस्तु बनाति, इत्यनाहारको भजनया उक्तः, 'वैयणिज्जं आहारए बंधइत्ति अयोगवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, 'अणाहारए भयणाए'ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बभाति, अयोगी सिद्धश्च न बध्नाति इति भजना, 'आउयं आहारए भयणाएत्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धनात् भजनेति, 'अणाहारएण बंधइति विग्रहगत्यापन्नानामप्यायुषोऽबन्धनादिति । सूक्ष्मद्वारे 'बायरे भयणा' वीतरागबादराणां ज्ञानावरणाबन्धकत्वात् सरागवादराणां च बन्धकत्वात् तद्भजनेति, | सिद्धस्य पुनरबन्धकत्वादाह- 'नो सुहमे' इत्यादि, 'आउए सुहुमे वायरे भगणाए 'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनात् भजनेति । चरमद्वारे 'अडऽविह भयणाए 'ति इह यस्य चरमो भयो भविष्यति स चरमः, यस्य तु नासौ भविष्यत्यसौ अचरमः, सिद्धश्वाचरमः, तस्य चरमभवाभावात् तत्र चरमो यथायोगमष्टापि बनाति, अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टापि बभीयात्, सिद्धस्तु नेत्येवं भजनेति । अथाल्पबहुत्वद्वारं तत्र - 'इत्थिवेयगा संखेज्जगुण' त्ति (सु. २३७) यतो देवनरतिर्यक्पुरुषेभ्यः स्त्रियः क्रमशो द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाः स्युरिति, 'अवेयगा अनंतगुण'त्ति अनिवृत्तिवादरसम्परायादयः सिद्धाश्चावेदाः अतस्तेऽनन्तत्वात् स्त्रीवेदेभ्योऽनन्तगुणाः स्युरिति, नपुंसगवेयगा 'अनंत गुण'ति अनन्तकायिकानां सिद्धे
182~
शतके १३ उद्देशः
८७