________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [७], मूलं [२१२-२१९] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभगः
प्रत सूत्रांक [२१२२१९]
दीप अनुक्रम [२५३२६१]
मण्डकादिपचनिका, 'लोहकडुच्छुय'त्ति अन्नपरिवेषणाद्यर्थों भाजनविशेषः,'भवणा' भवनपतिनिवासाः।।पंच हेउ'त्ति(स.२१९/५ शतके || इत्यादि, इह हेतुपु वर्तमानो ना-नरो हेतुरेव, तदुपयोगानन्यत्वात् , पञ्चविधत्वं चास्य क्रियाभेदादित्याह-'हेउं जाणइत्ति हेतु-10७ उद्देश:
साध्याविनाभूतं साध्यनिश्चयार्थ जानाति-विशेषतः सम्यगवगच्छति, सम्यग्दृष्टित्वाद् , अयं च पश्चविधोऽपि सम्यग्दृष्टिमन्तव्यः, मिथ्यादृष्टेः रात्रद्वयात् परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति, सामान्यत एव, अवयोधच्चादिति द्वितीयः, एवं हेतुं युध्यते, IR | सम्यक् श्रद्धत्ते, बोधेः सम्यश्रद्धानपर्यायत्वात् इति तृतीयः, हेतुं अभिसमागच्छति, साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोतीति चतुर्थः, 'हेडं छउमत्थे'त्ति हेतुः-अध्यबसानादिर्मरणकारणं तद्योगात् मरणमपि हेतुरतस्तं, हेतुमदित्यर्थः, छमस्थमरणं, न केवलिमरणं, तस्य निर्हेतुकत्वात् , नाप्यज्ञानमरणं, एतस्य सम्यग्ज्ञानित्वात् , अज्ञानमरणस्य च वक्ष्यमाणत्वात् , म्रियते-करोतीति पञ्चमः । | प्रकारान्तरेण हेतूनेवाह-हेतुना अनुमानस्थापकेन जानाति अनुमेयं सम्यगवगच्छति, सम्यग्दृष्टित्वादेका, पश्यति द्वितीयः, बुध्यते | श्रद्धत्ते इति तृतीयः, एवमभिसमागच्छति-प्रामोतीति चतुर्थः, अकेवलित्वात् हेतुना अध्यवसानादिना छमस्थमरणं नियत इति । | पञ्चमः । अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-'पश्चेत्यादि, पञ्च क्रियाभेदात् , हेतवो हेतुव्यवहारत्वात् , तत्र हेतु-लिङ्ग न जानाति, नत्रः कुत्सार्थत्वादसम्यगवैति, मिथ्यादृष्टित्वात, एवं न पश्यति न बुध्यते नाभिसमागच्छति, हेतुं अध्यवसानादिहेतुयुक्तं अज्ञानमरणं म्रियते-करोति, मिथ्यादृष्टित्वेनासम्यग्ज्ञानित्वात् । अथ प्रकारान्तरेण हेतूनाह-हेतुना-लिङ्गेन न जानाति, असम्यग-18 | वगच्छति, एवमन्येऽपि चत्वारः, अथ उक्तविपक्षभूतानहेतूनाह-पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिना अहेतुव्यवहारित्वादहेतवःकेवलिनः, ते च पञ्च क्रियाभेदात् , तद्यथा-'अहेउं जाणइत्ति अहेतुं न हेतुभावेन, सर्वज्ञत्वेनानुमानानपेक्षत्वाद्धमादिकं जानाति,
॥७९॥
~166~