________________
आगम
(०५)
प्रत सूत्रांक
[७-११]
गाथा
दीप
अनुक्रम [८-१५]
श्रीभग
वती
सूत्रम्
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१
शतक [१], वर्ग [-] अंतर् शतक [-], उद्देशक [१], मूलं [७-११] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
सया पृष्टानि निर्णीतानि, अथैतानि चलनादीनि मिथः किं तुल्यार्थानि भिन्नानि वा इति पृच्छानिर्णयं दर्शयितुमाह-'एए णं भंते 'ति इति व्यक्तम्, 'एगड'त्ति एकप्रयोजनानि च 'नाणाघोस'त्ति इह घोषा उदात्तादयः 'नाणावंजण' ति व्यंजनानि - अक्षराणि 'उदाहु'त्ति उताहो निपातो विकल्पार्थः 'नाणः'त्ति नानार्थानि इह चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि, यथा क्षीरं क्षीरं १ तथा अन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इति २ तथा अन्यानि अनेकार्थानि एकव्यञ्जनानि यथा अर्कगव्यमाहिपाणि क्षीराणि ३ तथा अन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटमुकुटलकुटशकटादीनि ४, एवं चतुभङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको अत्र प्रश्नवत्रे गृहीतौ, चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि पञ्च पदान्याश्रित्य चतुर्थः, कथं आद्यानि चत्वारि पदान्येकार्थानी त्याशंक्याह-'उप्पन्नपक्खस्स'ति इह च षष्ट्या स्तृतीयार्थत्वात् उत्पन्नपक्षेण, उत्पादपर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मक्षये फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादपक्षविषयत्वादेकार्थान्युक्तानि तत् कथं ? - चलितं सत् उदीरयति, उदीरितं सत् वेद्यते, विदितं सत् अनुभूयते, (अनुभूतं सत्) प्रहीयते, तस्मादेकार्थान्येतानि, केवलोत्पादपक्षसाधकानीत्यर्थः, अथ शेषाणि अनेकार्थानि पञ्च पदानि प्रतिपादयितुमाह-'छिज्जमाणे' त्ति छिद्यमानं छिन्नमितिपदं स्थितिबन्धाश्रयं यतः सयोगिकेवली योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घस्थितिकानां सर्वापवर्तनया अन्तर्मुहूर्तकं स्थितिबन्धं कुर्यात् भिद्यमानं भिन्नमितिपदमनुभागवन्धाश्रयं तत्र यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति अतो रसघातकरणेन पूर्वस्माद्भिन्नार्थं पदमेतत् दह्यमानं दग्धमिति - पदं प्रदेशबन्धाश्रयं, अनन्तानां प्रदेशानां कर्म दलिकानां पञ्चह स्वाक्षरोच्चारणकालपरिमाणया संख्यातसमयया गुणश्रेणीरचनया पूर्व
. ॥३॥
~14~
शतके
१ उद्देशः