________________
आगम
(०५)
“भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [१], वर्ग H, अंतर्-शतक H. उद्देशक [१], मूलं [७-११] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
उद्देश:
प्रत सूत्रांक [७-११]
गाथा
रचितानां शैलेशीकरणावस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत् प्रतिसमयमसंख्येयगुणश्रीभग
द्वानां कर्मपुद्गलाना दहनं दाह इति दहनार्थेनेदं पूर्वमाद्भिन्नार्थ, तथा नियमाणं मृतम् एतत्पदं आयुःकर्मविषय, यतः आयुःपुद्गलानां
प्रतिसमयं क्षयो मरणं,अनेन च मरणार्थेन पूर्वमाद्भिन्नपदं, तथा निर्जीयमाणं निर्जीर्णम् एतत् पदं सर्वकर्माभावविषयं निर्जरणार्थेन पूर्वपHदेभ्यो भिन्नम् ,अथैतानि पदानि नानार्थानि कस्य पक्षस्थाभिधायकतया प्रवृत्तानि इत्याशंक्याह-विगयपक्खस्स'त्ति विगतं विगमोIBI वस्तुनोऽवस्थान्तरापेक्षया विनाशः स एव पक्षो-वस्तुधर्म: तस्य वा पक्षः-परिग्रहो विगतपक्षः तस्य विगतपक्षस्य, वाचकानीति शेषः,
| विगमत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्थाप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि त्वेवं | विगमार्थानि भवन्ति-छिद्यमानपदे हि स्थितिखंडनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगम उक्तः, दह्यमानपदे त्वकर्मताभवनं विगम उक्तः, प्रियमाणपदे पुनरायुःकर्माभावो विगम उक्तः, निर्जीयमाणपदे स्वशेषकर्माभावो विगम उक्तः, तदेवमेतानि । विगतपक्षप्रतिपादकानि केवलोत्पत्तौ सर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतानि । | इहायप्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, तेन जीवाश्च नारकादयश्चतुर्विंशतिविधा उक्ताः, यदाह-"नरइया १ असुराई १० पुढवाई ५ दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ ॥१॥" तत्र नारकान् स्थित्यादिमिश्चितयन्नाह-'नेरइयाण'ति, निर्गतमयम्-इष्ट फलं येषां ते निरयाः तेषु भवा नैरयिकाः तेषां नैरयिकाणां, 'दस वाससहस्स'त्ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया, 'तेत्तीसं'ति सप्तमपृथिव्यपेक्षया उत्कृष्टा, शेषा सर्वापि कालखितिमध्यमा ज्ञेया ?। 'केवइकाल-| म्स'त्ति प्राकृतशैल्या कियता कालेन 'आनमंति'त्ति 'अनश्वस प्राणने' इतिधातुपाठात् मकारस्थागमिकत्वात् , एवं प्राणमंति, एतदेव
aroM elinpaidmetfelturateHunMEMPERAPHERAPHIBIDI HORITOPATANDARDKARISHMAITHIMATALABIRHATION
सक
दीप अनुक्रम [८-१५]
~150