________________
आगम
(०५)
प्रत
सूत्रांक
[१५२]
दीप अनुक्रम
[१८० ]
श्रीभग
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [३], मूलं [ १५२ ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
8000
ऐर्यापथिकी, केवलकाययोगप्रत्ययेति, 'किरियत्ति क्रिया-कर्म सातावेदनीयं 'कज्जइ'त्ति क्रियते भवतीति, उपशान्तमोहक्षीण- ३ शतके मोहसयोगिकेवलिगुणस्थानकत्रयवर्त्तिवीतरागोऽपि सक्रियत्वात् सातवेद्यं कर्म बनातीति भावः, 'बद्धपुड' त्ति बद्धा कर्मतापादनात्, ३ उद्देशः स्पृष्टा जीवप्रदेशैः स्पर्शनात् वेदिता अनुभूतस्वरूपा, निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति, एतद्वाक्यान्तरेणाहबद्धा स्पृष्टा प्रथमसमये द्वितीयसमये उदीरिता उदयमुपनीता, किमुक्तं स्यात् ? - वेदिता, नोकस्मिन् समये उदीरणा उदयश्च सम्भवति इत्येवं व्याख्यानं, तृतीये निजीर्णा, 'सेयका ले' त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्मापि स्यात् । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया स्यात्, तत्र प्रमादपरत्वं तदितरत्वं संयतस्य कालतो निरूपयन्नाह - 'सम्बावि य णं पमत्तद्वे ति (सू० १५३) सर्वापि सर्वकालसम्भवापि च प्रमत्ताद्धा - प्रमत्तगुणस्थानकालः कालतः कियन्तं कालं यावद् भवति इति प्रश्नः, 'एकं समयं जघन्येन प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात्, 'देसूणा पुव्वकोडित्ति किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति वा अप्रमत्तान्तर्मुहूर्त्ता पेिक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवमन्तर्मुहूर्त्त प्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटीकालमानं स्यात्, अन्ये त्वाहुः अष्टवर्षोनां पूर्वकोटीं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति, एवमप्रमत्तसूत्रमपि, नवरं 'जहणे 'ति किलाप्रमत्ताद्वायां वर्त्तमानस्यान्तर्मुहूर्त्तमध्ये मृत्युर्न स्यात् चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावाद, स चोपशमश्रेणीं प्रतिपद्यमानो मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति, 'अइरेयं' ति ( मू० १५४) तिथ्यन्तरापेक्षयाऽधिकतरं 'लवणसमुद्द
~131~
5566450650000