SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक |१७|| दीप अनुक्रम [१] ७ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [-] / गाथा ||१७|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः सुन्दराणि खपरनिर्वृतिहेतुतया कन्दराणि तपखिनामावासभूतत्वात् तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः तपखी'ति जीवदयासुन्दरकन्दराणि तेषु ये उत्-प्राबल्येन कर्मशत्रुजयं प्रति दर्पिता उदर्पिता मुनिवरा एव | शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीपण - व्याप्तस्तस्य, तथा मन्दरगिरेर्गुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि रत्नानि भवन्ति कनकादिधातवो दीप्तार्थौषधयः, सङ्घमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेषां खरूपेण भाखरत्वात्, तथा प्रगलन्ति - निष्यन्दमा - नानि क्षायोपशमिकभावस्यन्दित्वात् श्रुतरत्नानि दीप्ताः - जाज्वल्यमाना ओषधयः- आमशषध्यादयो गुहासुव्याख्यानशालारूपासु यस्य स तथा तस्य ॥ संवरः प्राणातिपातादिरूपपञ्चाश्रव प्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः - सातत्येन व्यूढः उज्झरः- प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणि -जिनमण्डपादिरूपाणि यस्य स तथा तस्य ॥ विनयेन नता विनयनता ये प्रवरमुनिवराः त एव स्फुरन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिर्ज्वलन्ति भासमानानि शिखराणि यस्य स तथा तस्य इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात्, तथा विविधा गुणा येषां ते For Pernal Use On ~96~ संघer मन्दरेणी पम्यं. ५ १० १३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy